उत्तरप्रदेशसंस्कृतसंस्थानस्य लखनऊ-स्थितस्य “गृहे गृहे संस्कृतम्” योजनान्तर्गतं सामूहिकसमापनसमारोहः सम्पन्नः

लखनऊ, ०३ सितम्बर २०२५।
भाषाविभाग- उत्तरप्रदेशशासनाधीनस्य उत्तरप्रदेशसंस्कृतसंस्थानस्य, लखनऊस्थितस्य, “गृहे गृहे संस्कृतम्” इति योजनान्तर्गताः अगस्तमासीयाः सरलसंस्कृतभाषाशिक्षणकक्ष्याः सञ्चालिताः आसन्, तासां सामूहिकः समापनसमारोहः अद्य गूगल्-मिट् नामकेन ऑनलाइन-माध्यमेन सम्पन्नः।
कार्यक्रमे मुख्यातिथिरूपेण श्रीलक्ष्मणसंस्कृतमहाविद्यालयस्य प्राचार्यः डॉ. रामभूषणविजल्वाणः उपस्थितः। तेन स्ववक्तव्ये कथितं यत् “गृहे गृहे संस्कृतम्” इत्यस्य एव योजनायाः प्रयोजनं स्पष्टं दृश्यते। यदा परिवारेषु माता-पितरौ, संततयः, दम्पती च संस्कृतभाषया परस्परं संवादं कुर्वन्ति, तदा संस्कृतभाषा केवलं भाषा न भवति, अपितु जीवनशैलीरूपेण प्रतिष्ठाम् आप्नोति। बाल्यकालादेव संस्कृतस्य अभ्यासः सहजसंवादरूपेण करणीयः।
विशिष्टातिथिरूपेण उत्तराखण्डविद्वत्सभायाः अध्यक्षः आचार्यः विजेन्द्रप्रसादममगाईं स्ववक्तव्ये अवोचत् यद्
“उत्तरप्रदेशसंस्कृतसंस्थानं लखनऊस्थितं निरन्तरं संस्कृतभाषायाः प्रचारप्रसारे प्रेरणादायकं कार्यं करोतु। सरलसंस्कृतशिक्षणकक्ष्याः, गृहे गृहे संस्कृतम् इति योजना, संस्कृतप्रतियोगिताः, कार्यशालाः च—एते सर्वे संस्थानेन कृताः उल्लेखनीयाः प्रयत्नाः सन्ति। अनेनैव कारणेन उत्तरप्रदेशेन सह अन्येषु राज्येषु अपि संस्कृतं पुनः जनजीवने प्रतिष्ठां लभेत। संस्थानस्य निदेशकः श्री विनयश्रीवास्तवः अवोचत् यत् “संस्कृतस्य अध्ययनं केवलं शास्त्रपर्यन्तं न स्थीयताम्, अपितु व्यवहारभाषारूपेण समाजस्य सर्वेषु क्षेत्रेषु व्याप्यताम्। संस्थानस्य ऑनलाइन-योजनाः अत्यन्तं सफल्यभवन्, जनसामान्यः ताभ्यः लाभान्वितः।”
समारोहे संस्कृतभाषायाः महत्त्वं विवृत्य युवाशक्तेः संस्कृतस्य अंगीकरणाय आह्वानं कृतम्। इदम् अपि उल्लिखितम्—अद्यापि जर्मनी-अमेरिका- जापान-रूसादिषु राष्ट्रेषु विश्वविद्यालयेषु संस्कृतशोधः अध्यापनं च प्रवृत्तम् अस्ति। अतः भारतवासिनां कर्तव्यं यत् ते स्वभाषायां स्वसंस्कृतौ च गर्वं कुर्वन्तु।
कार्यक्रमस्य सञ्चालनं नीलाक्षीश्रीवास्तवेन कृतम्। विशेषतः डॉ. नवीनजोशी अपि उपस्थितः। सरस्वतीवन्दना नीलमश्रीवास्तवेन प्रस्तुता, संस्थानगीतिका रहमत्या , वाचिकस्वागतं दिव्यरञ्जनेन, स्वागतगीतं गङ्गोत्रीशुक्लया, प्रास्ताविकभाषणं धीरजमैठाणिना च सम्पादितम्।
अनुभवकथनं मञ्जुलताचौहानेन उदीरितं, धन्यवादज्ञापनम् अनिलगौतमेन कृतम्, शान्तिमन्त्रः प्राञ्जलगुप्तेन पठितः।
योजनायाः प्रभारी श्रीभगवानसिंहचौहानः, परिकल्पकौ दिव्यरञ्जनः राधाशर्मा च, तांत्रिकसहयोगी महेन्द्रमिश्रः च सविशेषम् अवर्तन्त। अस्मिन् अवसरे समस्ताः शिक्षकाः-शिक्षार्थिनः, केन्द्राध्यक्षाः, अभिभावकाः, सामाजिकसंस्कृतानुरागिणः विद्वज्जनाः च समुपस्थिताः आसन्।