संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

अप्रैलमासीयम् उद्धाटनसत्रं सम्पन्नम्

"उपक्रमोऽयं बहुमोदमानोऽस्ति"

वार्ताहर:-शशिकान्तः। अप्रैलमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२४ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य सर्वाभिलाषान् स्पृशन्तीं देववाणीं शिक्षितुं चैत्रनवरात्रे अतीव संस्कृतरसः प्रसरति वसन्ते जनेभ्यः रोचते संस्कृतञ्च। प्रारम्भे वैदिकमङ्गलाचरणम् अनन्तरं संस्थानगीतिकानन्तरं सरस्वतीवन्दना विहिता। नूतनसत्रेऽस्मिन् संस्कृतभाषाशिक्षणकक्षायां प्रशिक्षुभिः संस्कृतसूक्ष्मताः ज्ञाताः । पत्रिकापठनार्थं, मित्रालापार्थं, गीतापठनपाठनार्थं, परीक्षार्थं, सम्भाषणार्थञ्च इतोऽपि पृथक् पृथक् उद्देश्यं सफलीकर्तुं बहुभ्यः क्षेत्रेभ्य: राज्येभ्यश्च प्रशिक्षवः समागताः ।
उपक्रमोऽयं बहुमोदमानोऽस्ति। आधुनिककाले संस्कृतभाषायाः उपयोगिता: उक्त्वा शास्त्रसंरक्षणे संस्कृतस्य मुख्यभूमिका प्रस्तावितासीत् । भाषाविज्ञानानुसारं संस्कृतस्य महत्त्वमुक्तम्। जिलागाजियाबादस्य संस्थानप्रशिक्षक शशिकांत महोदयेन कक्षैषा संचाल्यते । द्वितीयस्तरस्य कक्षैषा सायं ०८:०० – ०९:०० वादनपर्यन्तं प्रचलति। शशिकान्त महोदय: प्रशिक्षून् वर्णमालाज्ञानं, संस्कृतस्य सूक्ष्मतां च पाठितवान्। कक्षायामुपस्थितेषु निशा,निधि,प्रखर,शबनम, कविता, छाया,पंकज, पूनम,वीरेन्द्र इत्यादिभिः प्रशिक्षुभि: स्वविचाराः प्रकटिताः। प्रतिभागिभ्यः धन्यवादं दत्त्वा प्रशिक्षणसंयोजकः श्री धीरज मैठाणी संस्थायाः योजनायाः विषये विस्तरेण उक्तवान् । सः अवदत् यत् प्रतिमासं २ तः ३ सहस्रं छात्राः संस्कृतभाषां शिक्षन्ते। एताः कक्षाः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रधानपदाधिकारी डॉ. दिनेशमिश्रः, सर्वेक्षक भगवानसिंह:, प्रशिक्षणप्रमुखः सुधिष्ठ मिश्रः, कक्षानिरीक्षणं समन्वयक दिव्य रंजनः राधा शर्मा च कृतवन्तः। ऑनलाइन माध्यमद्वारा संचालितकक्षायामन्ते कक्षान्ते प्रतिदिनं प्रतिभाप्रदर्शनमपि भवति च । अत्र ५० छात्रैः सह, संस्थायाः पदाधिकारिणः,कविता, मिलिन्द, नीति इत्यादयः उपस्थिताः आसन्।
एतासु कक्षासु अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्यः प्रमाणपत्राणाम् वितरणस्य व्यवस्थापि अस्ति ।
एतावता बहवः उपकृताः। विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति, तेऽप्यत्र पठितुमागच्छन्ति । एतया योजनया अग्रेऽपि उपकृताः भविष्यन्ति एव । ये एतां निःशुल्क- कक्षामागन्तुकामाः ते जनाः

“sanskritsambhashan.com” इति लिंक उद्घाट्य तत्र स्वानुकूलतया समयं चित्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति । ये प्रथमस्तरं पठितवन्तः विशेषतः तेभ्यः अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते। परीक्षायाम् ३३% उत्तीर्णवद्भ्यः शिक्षार्थिभ्यः ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। मासे अस्मिन् संस्थानद्वारा अधुना ‘गृहे-गृहे संस्कृतम्’ इत्यनया योजनयापि प्रचार: भवति ।
निःशुल्क नामांकन कर्तुमिच्छन्ति तेभ्यः नामांकनलिंक “https://sanskritsambhashan.com / seco nd_level_reg.php” इत्यस्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button