उत्तराखण्डनैनीताल

राज्यस्तरीययोगासनप्रतियोगितायां महेन्द्रसिंहरावत: प्राचार्येण सत्कृत: ।

पीएन्जीराजकीयस्नातकोत्तरमहाविद्यालयस्य योगवैकल्पिकचिकित्साविभागस्य स्नातकोत्तरयोगकक्षायाः छात्रो रावत-महेन्द्रसिंहः राज्यस्तरीयायां योगासनप्रतियोगितायां विजयश्रियं वृतवान्। हर्षस्य विषयोऽयं यत् पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे सेप्टेम्बरमासस्य प्रथमे दिनाङ्के देहरादूननगरे समायोजितायां षष्ठ्याम् उत्तराखण्डीयराज्यस्तरीयायां पुरुषवर्गयोगासनप्रतियोगितायाम् अयं युवकः स्वकौशलं प्रादर्शयत्।

अस्यां प्रतियोगितायां तेन पादाग्रसन्तुलने स्वर्णपदकं हस्तसन्तुलने च रजतपदकं विजित्य न केवलं योगविभागस्य अपितु सकलस्य महाविद्यालयस्य गौरवं वर्धितम्। योगविभागस्य प्रशिक्षको डाक्टर् कापडि-मुरलीधरः सूचितवान् यत् शीघ्रमेव महेन्द्रो राष्ट्रियस्तरीयायां प्रतियोगितायां स्वयोगनैपुण्यं प्रदर्शयिष्यति। स्मर्तव्यं यत् इतः पूर्वमपि महेन्द्रसिंहो जनपदस्तरीयायां प्रतियोगितायां स्वर्णपदकद्वयं प्राप्तवानासीत्।

यदा विजयी छात्रो रावत-महेन्द्रसिंहो महाविद्यालयमागतस्तदा प्राचार्यः प्राध्यापकः पाण्डे-महेन्द्रचन्द्रः क्रीडाप्रभारी डाक्टर् योगीशचन्द्रः डाक्टर् शङ्करमण्डलः योगप्रभारी डाक्टर् सुमनकुमारः डाक्टर् शुक्ल-मूलचन्द्रः योगप्रशिक्षकश्च डाक्टर् कापडि-मुरलीधरः तस्य सादरं स्वागतं चक्रुः स्मृतिचिह्नं च प्रदाय सम्मानितवन्तः।

अस्याः सिद्धेः श्रेयः रावत-महेन्द्रसिंहः स्वकीययोगप्रशिक्षकाय डाक्टर् कापडि-मुरलीधरायैवार्पयत्। सः अवदत् यत् गुरुवर्यस्य कुशलमार्गदर्शनेनैव मयेयं सफलता लब्धा येन पातञ्जलयोगसूत्रोक्तं स्थिरसुखमासनमिति सूत्रं साक्षात्कृतम्।

उल्लेखनीयं यदस्मिन् वर्षे डाक्टर् कापडि-मुरलीधरस्य मार्गदर्शने सप्त छात्राः राज्यस्तरीयायाम् अस्यां प्रतियोगितायां भागमगृह्णन् सर्वेषामेव प्रदर्शनम् उत्कृष्टमासीत्।

महाविद्यालयस्य प्राचार्यः प्राध्यापकः पाण्डे-महेन्द्रचन्द्रो विजेतारं छात्रमभिनन्द्य राष्ट्रियप्रतियोगितायै शुभकामनाः प्राददात् तस्योज्ज्वलभविष्यं च कामितवान्। योगविभागस्य प्रभारी डाक्टर् शुक्ल-मूलचन्द्रः डाक्टर् सुमनकुमारश्चावदताम् यद्योगविभागस्य छात्रा निरन्तरं योगक्षेत्रे प्रशंसनीयं कार्यं कुर्वन्तः सन्ति। तौ पदकविजेतारं महेन्द्रमभिनन्द्य अग्रिमाः शुभकामना दत्तवन्तौ। अस्मिन्नवसरे क्रीडाप्रभारी डाक्टर् योगीशचन्द्रो डाक्टर् शङ्करमण्डलश्च उपस्थितौ आस्ताम्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button