उत्तराखण्ड

विक्रमाब्दे द्व्यशीत्युत्तरद्विसहस्रतमे (२०८२) भाद्रपदमासस्य पूर्णिमायां चन्द्रग्रहणविषयकं ज्यौतिषीयं विवेचनम्

रमेशचन्द्रपाण्डेय: जगद्गुरुशङ्कराचार्यज्योतिषपीठस्य धर्माधिकारी उत्तराखण्डविद्वत्सभायाः संरक्षकः श्रीज्ञानीगोलोकधामोत्तराखण्डस्य अध्यक्षः ज्योतिषाचार्यश्च ।

नभसि चरतां ज्योतींषि परस्परसम्बन्धात् कालयोगाच्च विविधानि कौतुकानि दर्शयन्ति । तेषु ग्रहणं नाम घटना विशिष्टा न केवलं खगोलशास्त्रदृष्ट्या कौतुकावहा अपि तु ज्योतिषशास्त्रानुसारेण मानवानां जीवनं समाजं धर्मं च गभीरं स्पृशति । अस्मिन्नेव क्रमे आगामिनि पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे सप्तम्बरमासस्य सप्तमे दिनाङ्के रविवासरे घटिष्यमानः पूर्णचन्द्रोपरागः अत्यन्तं महत्त्वपूर्णो भविष्यति यतो हि स पितृपक्षस्य पूर्णिमायां तिथौ सम्भविष्यति । पितृपक्षे सञ्जायमानस्योपरागस्य शास्त्रेषु विशेषो विचारः कृतो वर्तते ।

अयं चन्द्रोपरागः रात्रौ त्रिपञ्चाशदुत्तरनववादनतः प्रारभ्य प्रातःकाले पञ्चविंशत्युत्तरैकवादने समाप्स्यते । ज्यौतिषीयगणनामनुसृत्य ग्रहणस्य सूतककालः नवहोराभ्यः पूर्वमेव प्रवर्तते । अनेन प्रमाणेन सूतकस्य प्रारम्भः मध्याह्ने त्रिपञ्चाशदुत्तरद्वादशवादनतो भविष्यति । सूतके प्रवृत्ते सति लौकिका व्यवहारा निषिध्यन्ते । भोजनमाङ्गलिककर्मदेवप्रतिमास्पर्शपूजायात्रादिकं सर्वथा वर्जनीयमिति शास्त्रेषु मतम् । केवलं बाला वृद्धा रुग्णाश्चापवादरूपेणानुमन्यन्ते ।

धर्मशास्त्रेषु कथितं यद् ग्रहणकाले कृतं स्नानजपध्यानदानादिकम् अत्यन्तं पुण्यप्रदं भवति । तस्मिन् काले कृतो मन्त्रजपः सहस्रगुणितं फलं ददातीति श्रूयते । यतो ह्येतद् ग्रहणं पितृपक्षपूर्णिमायामेव घटिष्यते तस्मात् तद्दिने श्राद्धकर्मणोऽपि विशिष्टं महत्त्वं वर्तते । किन्तु शास्त्रविधानमनुसृत्य श्राद्धपिण्डदानतर्पणादिकं कर्म सूतककालात् पूर्वमेव समापनीयम् । ग्रहणकाले तु भोजनं श्राद्धं वा नैव कर्तव्यम् । येषां कुलेषु श्राद्धस्य परम्परा अस्ति ते प्रातःकाले अथवा सूतकात् पूर्वमेव पितृकार्यं सम्पादयेयुः ।

पितृपक्षेण सहोपरागस्य सम्बन्धः विशेषफलदायी मन्यते । तस्मिन् समये पितॄनुद्दिश्य कृतं तर्पणं दानं च तेभ्यो विशेषतृप्तिं जनयति । पुराणेषु वर्णितं यद् यदि पितृपक्षस्य तिथौ ग्रहणं भवेत् तर्हि पितॄन् संस्मृत्य विप्रेभ्योऽन्नवस्त्रदक्षिणादिकं दद्यात् । एतद्धि परमकल्याणकरं भवति । तत्काले कृतं पुण्यकर्म न केवलं पितॄन् तर्पयति अपितु वंशजानां कृतेऽपि समृद्धिं शान्तिं चानयति ।

ज्योतिषशास्त्रदृष्ट्या चन्द्रोपरागस्य साक्षात् सम्बन्धश्चन्द्रेण सह वर्तते । चन्द्रो हि मनसो भावनानां च कारकग्रहोऽस्ति । ग्रहणकाले चन्द्रो राहुणा ग्रस्यते येन मानवानां मनसि मानसिकदौर्बल्यं चिन्ता चाञ्चल्यं चेत्यादयो भावाः सम्भवन्ति । येषां जातकानां जन्मकुण्डल्यां चन्द्रः पीडितो वर्तते तैर्विशेषेण सावधानैर्भवितव्यम् । येषां तु चन्द्रे शुभग्रहस्य दृष्टिर्वर्तते तेषां कृतेऽयं काल आत्मचिन्तनस्य साधनायाश्च श्रेष्ठोऽवसरो भविष्यति । विशेषतः कर्कटवृश्चिकराशीनां जातकाः सावधानतां भजेरन् यदा तु वृषभमीनराशीनां जातकेभ्यः अयं समयः साधनाध्यानयोगादिभिराध्यात्मिकोन्नतेः कारणं भविष्यति ।

खगोलविज्ञानदृष्ट्या चन्द्रग्रहणं तदा भवति यदा सूर्यचन्द्रमसोर्मध्ये समागता पृथिवी स्वकीयया छायया चन्द्रं छादयति । तस्मिन् काले चन्द्रबिम्बे रक्तवर्णस्ताम्रवर्णो वा दृश्यते यमाधुनिकं विज्ञानं रक्तचन्द्र इति नाम्ना व्यवहरति । यद्यपि विज्ञानमेतत् स्वाभाविकीं खगोलीयां घटनां मन्यते तथापि भारतीयसंस्कृतौ तस्य गूढ आध्यात्मिकं दार्शनिकं च महत्त्वं स्वीकृतमस्ति ।

अतः पञ्चविंशत्युत्तरद्विसहस्रतमवर्षस्य सप्तम्बरमासस्य सप्तमे दिनाङ्के भविष्यंश्चन्द्रोपरागस्तादृशोऽवसरो यत्र विज्ञानरसिका जना नभसि जायमानम् अद्भुतं दृश्यं द्रक्ष्यन्ति श्रद्धालवश्च शास्त्रनिर्दिष्टनियमान् पालयन्तो जपध्यानस्नानदानादिभिः पुण्यं सञ्चेष्यन्ति । विशेषेण पितृपक्षपूर्णिमायां जायमानमेतत् ग्रहणं पितॄणां कृपां प्राप्तुमात्मिकशान्तये च विशिष्टो योगो मन्यते । इयं हि घटना ज्ञापयति यत् खगोलीयाः परिणामा न केवलं बाह्यजगत् प्रभावयन्ति अपितु अस्माकम् आन्तरिकं जीवनमाचरणं चानुशास्तुं साधनान्यपि भवन्तीति ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button