उत्तराखण्डदेहरादून

“विद्वानेव विजानाति विद्वज्जनपरिश्रमम् — डॉ. रमेशचन्द्रपाण्डेयः”

देहरादून-तुलसीप्रतिष्ठानम् (२ सितम्बरमासः) उत्तराखण्डविद्वत्सभायाः (पञ्जीकृतायाः) षोडशः स्थापना-दिवस-समारोहः अद्य देहरादून-नगरे तिलकमार्गे अवस्थिते तुलसीप्रतिष्ठाने अत्यन्तं हर्षोल्लास-गौरवपूर्णेन वातावरणेन सम्पन्नः। अस्मिन् अवसरे क्षेत्रेभ्यः विभिन्नेभ्यः आगतानां विद्वज्जनानाम्, आचार्याणां, गणमान्यजनानां च उपस्थितिरेव समारोहस्य विशेषं महत्वं समावहत्।

समारोहस्य मुख्यातिथिः देहरादूननगरनिगमस्य माननीयमहापौरः श्री सौरव थपलियालः आसीत्। सः सभायाः क्रियाकलापानां प्रशंसा कृत्वा समाजे विद्वज्जनानां भूमिका अनिवार्या इति उक्तवान्।

विशिष्टातिथिरूपेण ज्योतिष्पीठ-जोशीमठस्य धर्माधिकारी, ज्ञानीगोलोकधाम्नः संस्थापकाध्यक्षः, सभायाः संरक्षकः, ज्योतिषाचार्यः डॉ. रमेशचन्द्रपाण्डेयः उपविष्टः। तेन भारतीयज्ञानपरम्परायाः संरक्षण-सम्वर्धनयोः आवश्यकतां विवृण्वन् उक्तं— “विद्वानेव विजानाति विद्वज्जनपरिश्रमम् , विद्वान् एव विद्वांसम् अग्रे नेष्यति अन्यः कश्चित् न। तेनोक्तं यत् संस्कृतभाषा च संस्कृति च संवर्धिता संरक्षिता च भविष्यतः।”
समारोहस्य अध्यक्षतां उत्तराखण्डविद्वत्सभायाः अध्यक्षः आचार्यः हर्षपतिगोदियालः अकरोत्। सः अध्यक्षीयभाषणे सभायाः उद्देश्यान् भावी-योजनाश्च प्रकाश्य उक्तवान् यत्— “सभा सदा समाजे ज्ञानस्य, संस्कृतेः, संस्कृतभाषायाः च प्रचारप्रसाराय समर्पिता भविष्यति।”

समारम्भः वैदिकमन्त्र-उच्चारणेन यज्ञानुष्ठानेन दीपप्रज्वलनेन च आरब्धः।

मञ्चे विराजमानाः विशिष्ट-महानुभावाः आसन्— ज्योतिषपीठव्यस्समलङ्कृतः शिवप्रसादः ममगाई, श्रीपरशुरामचतुर्वेदविद्यालयस्य प्राचार्यः भरतरामः तिवारी, गोव्रती डॉ. रामभूषणबिजल्वाणः, संरक्षणपवनशर्मा, प्रखरप्रवक्ता सुभाषजोशी, पूर्वाध्यक्षः विजेन्द्रममगाई, जयप्रकाशगोदियालः, नव्यसंरक्षको राजदीपडिमरी च। एते सर्वे संस्थापकानां प्रति कृतज्ञता व्यक्तवन्तः।

उपमञ्चे च पूर्वाध्यक्षोऽनुसूयाप्रसाददेवली, पुरोहितसमाजाध्यक्षः प्रेमबिंजोला, पूर्वपदाधिकारी दिनेशप्रसादभट्टः, मुकेशपन्तः, धीरजमैठाणी, सुरेशडबरालः, मन्त्री प्रसादः थपलियालः च सुशोभिताः।

मञ्चसञ्चालनं महासचिवः अजयडबरालः अकरोत्। प्रस्तावनां मुरलीधरः सेमवालः, समागतजनानां स्वागतं माल्यार्पणेन उपाध्यक्षः सत्यप्रसादः सेमवालः, प्रवक्ता विपिनः डोभालः, संगठनसचिवः राजेशः अमोलिः, परामर्शकः आशीष खंकरियालः च अकुर्वन्।
कोषगतदायित्वम् आदित्यरामः थपलियालः, दीपकः अमोलिः च निरवहताम्।

उत्तराखण्डसंस्कृतिविभागात् अनीता पोखरियालस्य नेतृत्वे सांस्कृतिकप्रस्तुतये एकं दलं विशेषतया उपस्थितम्। कार्यक्रमस्थले तुलसीप्रतिष्ठानस्य प्रधानः अश्विनीअग्रवालः अपि प्रमुखतया विराजमानः आसीत्।

अस्मिन् अवसरे सर्वे कार्यकारिण्यः, पूर्वपदाधिकारी, परशुरामचतुर्वेदविद्यालयस्य आचार्यः भगवतीप्रसादः थपलियालः सह ब्रह्मचारी-बटुकाः, पुरोहितसमाजस्य विप्राः, आजीवनसदस्याः, पत्रकारबन्धवः च समुपस्थिताः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button