अनुयायी ज्योतिपटवाल: ज्योतिर्विद: घिल्डियालवर्यस्य विजयीं आशिषं स्वीचकार

देहरादूनतः वार्ता । लैन्सडाउनक्षेत्रस्य विधायकस्य रावतदिलीपस्य धर्मपत्नीं रावतनीतूदेवीं जनपदपञ्चायतनिर्वाचने निर्णायकरूपेण पराजित्य राज्ये नवीनां कीर्तिं संस्थापयन्ती पटवालज्योतिर्देवी स्वदैवज्ञगुरुम् आचार्यं घिल्डियालचण्डीप्रसादं दैवज्ञम् उपगम्य तस्य आशिषः स्वीचकार ॥
भारतीयजनतापक्षस्य नेता पटवालमन्दीपः न्यवेदयत् यत् वयं बहुभ्यः वर्षेभ्यः ज्योतिर्विद्गुरोः आचार्यदैवज्ञस्य अनुयायिनः स्मः तस्यैव मार्गदर्शनेन कार्याणि कुर्मश्च । अस्मिन् जनपदपञ्चायतनिर्वाचने पौडीगढवालमण्डलस्य लैन्सडाउनविधानसभाक्षेत्रान्तर्गतात् जहरीखालनामकजनपदपञ्चासनात् मम पत्नी पटवालज्योतिर्देवी स्वतन्त्रप्रत्याशिरूपेण निर्वाचनयुद्धेऽवातरत् । आचार्यदैवज्ञस्य आशीर्वादेन च सा अस्मात् क्षेत्रात् त्रिवारं निर्वाचितस्य विधायकस्य रावतदिलीपस्य पत्नीं रावतनीतूदेवीं प्रायः पञ्चशतमतैरधिकैः पराजित्य राज्येऽस्मिन् ऐतिहासिकं विजयं समार्जयदिति ॥
आशीर्वादान् गृह्णन्ती पटवालज्योतिर्देवी अवदत् यत् विषमेषु कालेष्वपि ज्योतिर्विद्गुरुणा आचार्यदैवज्ञेन मम मार्गदर्शनं कृतम् । तस्यैव परिणामोऽस्ति यदहम् अस्मिन् जनपदपञ्चायतनिर्वाचने प्रतिष्ठापूर्णे संग्रामे इतिहासं रचयितुं सफला अभवम् । अद्य मया देहरादूननगरस्य धर्मपुरक्षेत्रे स्थितं दैवज्ञमहोदयस्य वैयक्तिकं गृहं श्वेतभवनम् (White House) आगत्य धन्यवादान् समर्प्य सपरिवारा आशीर्वादाः स्वीकृता इति ॥
संपर्के कृते सति स्वकीयसटीकभविष्यद्वाणीभिः अन्ताराष्ट्रिये जगति प्रख्यातः उत्तराखण्डज्योतिषरत्नः आचार्यः घिल्डियालचण्डीप्रसादः दैवज्ञः वार्तां प्रमाणीकुर्वन् जगाद यत् पटवालमन्दीपः अखिलभारतीयविद्यार्थिपरिषदः उत्तमः कार्यकर्ता सन् कोटद्वारमहाविद्यालयस्य अध्यक्षपदमपि अलञ्चकार । तस्य पत्नी पटवालज्योतिर्देवी अतीव व्यवहारकुशला उच्चशिक्षिता च वर्तते । दम्पत्योः अनयोः ग्रहयोगः नक्षत्रस्थितिः च आगामिने विधानसभा-निर्वाचनाय अतीवानुकूला दृश्यते इति ॥