संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

भारतीयज्योतिषसंस्थान-न्यासद्वारा संस्कृतसप्ताहस्य आयोजनम्।

प्रेषक:- आचार्यदीनदयालशुक्ल:।भारतीयज्योतिषसंस्थानन्यास, वाराणसीद्वारा आयोजितः साप्ताहिकः संस्कृतसप्ताहकार्यक्रमः आन्लाईनद्वारा आयोजितः। अस्य कार्यक्रमस्य प्रथमदिने उद्घाटनसत्रं सम्पन्नम् यस्मिन् डॉ. रत्नेश त्रिवेदी जी मुख्यातिथिरूपेण उपस्थिताः आसन्। कार्यक्रम के द्वितीयदिनस्य मुख्यातिथि रूपेण आचार्ययोगेश: उपस्थितोऽभवत्| तृतीयदिवसस्य कार्यक्रमे दिल्लीनगरे स्थितस्य लालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविद्यापीठविश्वविद्यालयस्य दर्शनविभागस्य अध्यक्षः डॉ. रामचन्दशर्मा मुख्यातिथिरूपेण उपस्थितः आसीत्। चतुर्थे दिने कार्यक्रमस्य मुख्यातिथि: काश्या: सुप्रतिष्ठिता ज्योतिषमर्मज्ञा श्रीमती पार्वतीपाण्डेया सामागच्छत्। पञ्चमदिवसस्य अतिथिः काशीहिन्दूविश्वविद्यालयस्य दर्शनविभागस्य डॉ.वागीश ओझा आसीत् । कार्यक्रमे अग्रिमातिथि अमितझा, ओमदत्तद्विवेदी च भविष्यन्ति। कार्यक्रमे भारतीय ज्योतिषसंस्थानस्य अध्यक्ष: आचार्यअम्बिकेशदुबे एवं निदेशक आचार्य धीरजदुबे अनयो: महत्वपूर्णा भूमिका वर्तते। अयं संस्कृतसप्ताहोत्सवः आचार्यदीनदयालशुक्लेन संयोजकत्वेन सर्वैस्सह मिलित्वा आयोजितः। सम्पूर्णे कार्यक्रमे प्रतिदिनं विभिन्नाः स्पर्धाः आयोजिताः आसन्। श्लोकवचनगीतापाठः, संस्कृतकथाकथनम्, पोस्टरमेकिंग् इत्यादीनि प्रतियोगितानि आयोजितानि आसन्। यस्मिन् बहवः छात्राः भागं गृहीतवन्तः। प्रतिवर्षं भारतीयज्योतिषसंस्थाभिः संस्कृतसप्ताहस्य आयोजनं भविष्यति। अस्मिन् कार्यक्रमे आचार्य मुकुलकौशिक:, श्रीमती संगीतासुयाल:, सुनीतासहारन, पवनमिश्र:, मनोजकुमार:, नितेशपाण्डेय: पुस्तकसिंह सहितम् अनेके अधिकारिण: उत्साहपूर्वकं भागमवोढन्। आचार्यदीनदयालशुक्लः अवदत् यत् प्रतिवर्षम् अस्य संकेतसप्ताहस्य आयोजनं भविष्यति। सर्वेषां प्रतिभागिनां पुरस्कार-प्रशंस-सत्रस्य आयोजनं २२ अगस्त-दिनाङ्के ऑनलाइन-रूपेण भविष्यति।इतिसम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button