एसपीएनमहाविद्यालये संस्कृतसप्ताहस्य कार्यक्रमः सम्पन्नः

होशियारपुरजनपदे मुकेरीयानगरे स्वामीप्रेमानन्दमहाविद्यालये संस्कृतसप्ताहमहोत्सवस्य समापनं सफलतापूर्वकम् अभवत्। अस्मिन् विषये संस्कृतविभागस्य अध्यक्षः डॉ. गोपी शर्मा अवदत् यत् भारते प्रतिवर्षं श्रावणीपूर्णिमा-पवित्र-अवसरः संस्कृत-दिवसरूपेण आचर्यते। श्रावणी पूर्णिमा ऋषिणां ज्ञान-पूजन-समर्पण-उत्सवः इति मन्यते । अस्मिन् दिने गुरुकुलेषु वेदाध्ययनात् पूर्वं याग्योपवीतः धार्यते । संस्कृतभारती पञ्जाबस्य निर्देशने सौजन्ये च सम्पूर्ण पंजाबप्रान्ते बहूनि कार्यक्रमाणि प्रचलन्ति। अतः अस्मिन् कार्यक्रमे अपि पद्यगायनप्रतियोगिता, पद्यलेखनप्रतियोगिता च आयोजिता। तेन सह संस्कृत-वृत्तचित्रं विज्ञान-प्रदर्शनं च छात्राणां कृते प्रदर्शितम् । महाविद्यालयस्य प्राचार्य डॉ. समीर शर्मा मुख्य अतिथिरूपेण कार्यक्रमे उपस्थितः। अस्य कार्यक्रमस्य कृते संस्कृतभारती पञ्जाब कृते एवं संस्कृतविभागाय अभिनन्दनं कृत्वा संस्कृते एव अस्माकं मूलः इति उक्तवान् । वयं कदापि अस्माकं मूलतः विरक्ताः भवितुम् न शक्नुमः। भारतस्य प्रतिष्ठायां संस्कृतस्य संस्कृतेः च अतिमहत्त्वम् वर्तते । अद्य नैतिकमूल्यानां कृते संस्कृतस्य उपयोगिता अत्यावश्यकी। तदनन्तरं कार्यक्रमे सहभागिनां छात्राणां कृते प्रमाणपत्राणि वितरितानि। अन्ते संस्कृतविभागस्य अध्यक्षः डॉ. गोपी शर्मा महाविद्यालयस्य प्रबन्धनसमित्याः , एवं च विशिष्ट रूपेण संस्कृतभारती पंजाब इत्यस्य दिशानिर्देशनाय धन्यवादः कृतम्। अस्मिन् अवसरे समूहसंस्कृतविभागस्य छात्राः उपस्थिताः आसन्।







