संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डचमोलीदेहरादूनहरिद्वार

विधानसभायां — “मम नाम.. भवत: नाम किम्” इत्यनेन परिचयेन संस्कृतसम्भाषणं..

भराडीसैण-गैरसैंणे उत्तराखण्डविधानसभासत्रस्य प्रथमदिने माननीयानां अभवत् सम्भाषणाभ्यास: ।

उत्तराखण्डस्य सांस्कृतिक्या: एवं च द्वितीयराजभाषाया: सम्माने अत्रत्य सम्मानितसंस्थानानि प्रतिजनं प्रति संस्कृतमानेतुं प्रयतन्ते । प्रामुख्येन अत्रत्य सर्वकारीयरूपेण राजभाषा धरातले अवतारणीयं चेत्तु तस्या: अवगमनं च संस्कृतेन सम्भाषणं प्रथमतया राजाज्ञाधिकारिभि: माननीयमन्त्रिभिश्च करणीयमेव । तथाविधं परिपालयितुं बुधवासरे भराडीसैण-गैरसैंणे उत्तराखण्डस्य विधानसभासत्रस्य प्रथमदिने माननीयविधानसभाध्यक्षाणां, माननीयमन्त्रिणां, माननीयविधायकानां, सचिवानां कृते च संस्कृतसम्भाषणशिबिरम् अभवत्। सर्वेऽपि उत्साहेन प्रतिभागं कृतवन्तः। प्रामुख्येन प्रतिभागिनः आसन् ।

माननीया विधासभाध्यक्षा ऋतुभूषणखण्डूरी, माननीय: संस्कृतशिक्षामन्त्री डा. धनसिंहरावतः, माननीय: वित्तमन्त्री श्रीप्रेमचन्द्र: अग्रवालः, माननीय: पर्यटनमन्त्री श्रीसतपाल: महाराजः, माननीय: विधायक: श्रीभरतसिहचौधरी, श्रीवंशीधरभगतः, श्रीमती सरिता आर्या, श्रीमती ममता राकेश:, मो. सहजादः, श्रीमुन्ना चौहानः, सचिव: श्री दीपककुमारः, श्री आर. मीनाक्षीसुन्दरम्, श्रीनीतेशझा, श्रीचन्द्रेशयादवः प्रभृतयः उत्तराखण्डस्य देवभूम्या: देवभाषाया: मानं संवर्ध्य सम्भाषणाभ्यासं कृतवन्त: ।

सौभाग्यावसरोत्र उत्तराखण्डसंस्कृताकादम्या: शोधाधिकारिणा संस्कृतसम्भाषणशिक्षणेन संजायते। एतेषां माननीयानां संस्कृतसम्भाषणेन ज्ञायते यत् द्वितीयराजभाषारूपेण संस्कृतस्य गौरवं पुन: प्रतिष्ठापयते। आशाषे शिक्षणरूपेण अपि माननीया: संस्कृतं सर्वेषाम् कृते अनिवार्यं कर्तुं समर्था: भविष्यन्ति येन प्रत्येक: जन: संस्कृतभाषया सह सुशिक्षित: भवेत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button