यदा संस्कृताचरणं तदा संस्कृतवातावरणं भविष्यति — डॉ. धनञ्जयकुमार: आचार्यः

वार्ताहर:- शशिकान्त: । उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिताया: ऑनलाइन- संस्कृतभाषाशिक्षणकक्षायाः अन्तर्गतं प्रेरणासत्रायोजनक्रमे सत्रस्य आरम्भः लौकिकमङ्गलाचरणं डॉ. निवेदिताद्वारा सञ्जातम् ।संस्थानगीतिका समतामहोदयया, स्वागतगीतं लक्ष्म्या संस्थानस्य प्रशिक्षक गणेश द्विवेदिमहोदयेन च अतिथीनां परिचयपुरस्सरं समेषां स्वागतं कृतम्। प्रशिक्षुषु हृषिकेश:,समृद्धि गुप्ता, पद्मा अग्रवालः, गौरी एवं अन्ये च अनुभवकथनं गीतानि च प्रस्तुतवन्त:। प्रशिक्षक: शशिकान्तः कार्यक्रमस्यरूपरेखां एवं संयोजनं कृतवान्। प्रेरणासत्रस्य वक्ता डॉ. धनञ्जयकुमार आचार्यः स्व-उद्बोधने संस्कृतभाषायाः महत्त्वविषये उक्तवान् यत् यत्र गच्छामः संस्कृतं वदामः तत्र चेत् तदेव संस्कृतप्रचारः प्रसारः च भविष्यति एवं च तदेव संस्कृतयुगम् आगमिष्यति।

*वेशेन वपुषा वाचा…..*पञ्चवकारयुक्तं श्लोकं श्रावयन् महोदयेन उक्तं यत् यदा संस्कृताचरणं तदा संस्कृतवातावरणं भविष्यति यदि वयं अस्माकं जीवने लघु लघु वाक्यानां प्रयोगं संस्कृतेन कुर्मः चेत् समाजोsयम् अस्माकं व्यवहारेण प्रेरितः भविष्यति । संस्कृतं वक्तुं समर्थाः जनाः सन्ति इतीयं भावनां सम्पोषिता भविष्यति । प्राचीनकाले वेदाः, पुराणानि, उपनिषदः इत्यादयः संस्कृतभाषायाम् आसन्। अस्मिन् काले ग्रन्थाः एव न संस्कृतभाषायाम् आसन् अपितु लोकभाषा अपि संस्कृतम् एव आसीत्। भाषा भावानां विचाराणां च प्रकटीकरणाय भवति। सर्वे संस्कृतस्य विषये चिन्तनं कुर्वन्तु एवं संस्कृतस्य प्रचारं प्रसारं कुर्वन्तु इति। प्रशिक्षकः विनोदकुमार त्रिपाठी अतिथिभ्यः कृतज्ञतां प्रकटितवान्। पंकजशर्ममहोदयः सम्पूर्णरूपेण तकनीकिसहायतां कृतवान्। सत्रस्य सुव्यवस्थितसञ्चालनं प्रशिक्षकः शशिकान्तमहोदय: कृतवान्। अन्ते प्रशिक्षक: विनोदकुमारत्रिपाठी सर्वेषां कृते सर्वाः सूचना: दत्तवान् । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः प्रशासनिकपदाधिकारी जगदानन्द झा, दिनेशमिश्रश्च योजनाप्रमुखः भगवानसिंहचौहानः, प्रशिक्षणप्रमुखः सुधिष्ठकुमारमिश्र, समन्वयकः धीरजमैठाणी, दिव्यरञ्जनः, राधाशर्मा इत्यादिभिः सह सर्वप्रशिक्षकगणः उपास्थितः आसीत् ।







