एकेश्वरविकासखण्डे मेधावीछात्रा: राष्ट्रीयछात्रा: च सम्मानिता: अभवन्।

आचार्यरौशनगौड:। उत्तराखण्डस्य पौडीजनपदस्य एकेश्वरविकासखण्डे अटलोत्कृष्ट-राजकीयवरिष्ठमाध्यमिक-विद्यालय-नौगांवखाले मेधावीसम्मानम् आयोजितं। यत्र “JG फेलोशिप्/पुरस्कार न्यास: मथाणा” इत्यनेन एकेश्वरविकासखण्डे विद्यमानानां पञ्चदश विद्यालयानाम् आर्थिकदृष्ट्या दुर्बलानां किन्तु मेधाविभ्यः छात्रेभ्यः छात्राभ्यश्च उत्साहवर्धनार्थम् प्रत्यक्षं पञ्चसहस्ररूप्यकाणां धनराशिपत्रं तथा स्मृतिचिह्नप्रदानार्थम् एकं सम्मानसमारोह: आयोजित: ।

कार्यक्रमस्य अध्यक्षतां न्यासस्य संस्थापकः अध्यक्षश्च श्रीमान् सेवानिवृत्तप्रधानाचार्यः नारायणसिंहनॆगी कृतवान्। तेन स्वविचारान् प्रकट्य प्रोक्तम् – “न्यासस्य लक्ष्यं यत् ग्राम्येभ्यः वञ्चितप्रदेशेभ्यश्च आगतानां प्रतिभावतां छात्राणां समुचितं मार्गदर्शनं साहाय्यं च लभेत, यत् ते राष्ट्रीयं अन्तर्राष्ट्रीयं च स्तरं प्रति क्षेत्रस्य गौरवं वर्धयितुं शक्नुयुः।”
मुख्यातिथिः खण्डविकासाधिकारिणः श्री नरेशचन्द्रसुयालः न्यासस्य अस्य सामाजिकप्रयासस्य प्रशंसां कृत्वा उक्तवान् – “एषः प्रयासः ग्राम्यप्रदेशाय प्रेरणास्पदः अस्ति।”

विशिष्टातिथिः खण्डशिक्षाधिकारी प्रतिनिधिः श्री यतीन्द्रमोहनधस्माना उक्तवान् “एवं प्रकारेण छात्राणां आत्मविश्वासवृद्धिः जायते, ते च जीवनस्य नवान् शिखरान् प्राप्नुयुः।”
सारस्वतातिथिना सहायकखण्डशिक्षाधिकारिणा प्रतिनिधिना श्रीमतीकुसुमलतारावतवर्यया न्यासस्य अस्य आयोजनस्य अभिनन्दनं कृतं, सा च उक्तवती – “एषा योजना शिक्षायाः सशक्तीकरणे साहायिका भविष्यति।”
न्यासेन सम्मानप्राप्ताः छात्राः सन्ति – ज्योति:, मोहितगौनियालः,अजयसिंह:, आर्यनसिंहचौहान:
मानसी, आरती, चित्रंश,अजयसिंह: , इशिका, निकिताकैन्तुरा, कशिशरावत:, रिया, अमीशा,काजलरावत:, हर्षितसिंहरावत: च।
सहैव पौडी जनपदस्य राष्ट्रप्रसिद्धक्रीडायाः विजेतारः अपि न्यासेन सम्मानिताः – ते च स्त: चन्द्रयोगिता – कांस्यपदकविजेता राष्ट्रस्तरीयक्रीडिका तथा च अंकिता ध्यानी – सुवर्णपदकविजेता राष्ट्रस्तरीयक्रीडिका।
कार्यक्रमस्य संचालनं विद्यालयस्य प्रधानाचार्यः श्री महेन्द्ररौतेला कृतवान्। स्वागतं कोषाध्यक्षया श्रीमतीपुष्पानेगीद्वारा , सदस्ययाकृतिकानेगीद्वारा , उपाध्यक्षेन अंकितनेगिना च कृतम्।
गणमान्योपस्थितयः सादरमासीदत्र श्री संजयरावत: (प्रधानाचार्यः), श्री एल. पी. वर्मा, श्री राकेश: पोखरियालः, श्री देवेन्द्रबर्थवालः, श्री मोहनचौहानः, श्री रविन्द्रचौहानः, च अनेकाः अभिभावकाः च उपस्थिताः आसन्।
अन्ते धन्यवादप्रदर्शनं न्यासस्य सचिवेन श्री अतुलनेगिना कृतम्, यः उक्तवान् – “एषः कार्यक्रमः शिक्षाक्षेत्रे सकारात्मक-ऊर्जायाः सञ्चारं कृतवान्। भविष्ये अपि अस्य प्रकारस्य आयोजनं निरन्तरं भविष्यति।”







