संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीतालसंस्कृत भारती

भाषा केवलं वार्तालापेन निरन्तर-अभ्यासेन च आयाति-त्रिपाठी

एम.बी.पी.जी.राजकीयस्नातकोत्तरमहाविद्यालये अभवत् संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरस्य समापनम्।

हल्द्वान्यां एम.बी.पी.जी.राजकीयस्नातकोत्तरमहाविद्यालये संस्कृतभारती-उत्तराञ्चलद्वारा संयुक्ततत्वावधानने चालितस्य दशदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनं बृहस्पतिवासरे अभवत् यत्र कार्यक्रमस्य आरम्भः अतिथिभिः दीपप्रज्वलनेन कृतः। अस्मिन् अवसरे मुख्यातिथिः संस्कृतभारत्याः प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी उक्तवती यत् भाषा केवलं वार्तालापेन निरन्तर-अभ्यासेन च आयाति, अतः अस्माभिः सर्वैः संस्कृतं वक्तुं प्रयत्नः करणीयः।

कार्यक्रमाध्यक्ष: एम.बी.पी.जी.महाविद्यालयस्य प्राचार्य: प्रो.एन.एस.बनकोटी उक्तवान् यत् संस्कृत भाषा अतीव शुद्धा, परिष्कृता, वैज्ञानिका च अस्ति, अस्यां भाषायाम् अपारं ज्ञानस्य निधिः अस्ति। इयं भाषा संस्काराणां जननी अस्ति।
विशिष्टातिथिरूपेण जन्तुविज्ञानविभागाध्यक्ष: प्रो. महेशकुमारशर्मा उक्तवान् यत् संस्कृतं विज्ञानस्य जननी अपि अस्ति। संस्कृतस्य प्राचीनग्रन्थेषु बहवः वैज्ञानिकविधयः ज्ञानं च निहिताः सन्ति। संस्कृतभाषाशिक्षणेन वयं शास्त्रेषु निहितं ज्ञानं विश्वमञ्चे आनेतुं शक्नुमः।

संस्कृतभारत्याः कार्यस्य विषये सूचनां दत्त्वा संस्कृतभारत्या: प्रान्तसहमन्त्री तथा अस्य शिबिरस्य शिक्षकः च डॉ. चन्द्रप्रकाश: उप्रेती अवदत् यत् संस्कृतभारती सम्प्रति विश्वस्य २९ देशेषु संस्कृतभाषायाः जनानां मध्ये प्रसारणार्थं सक्रियरूपेण कार्यं करोति। संस्कृतविभागाध्यक्षा कार्यक्रमसमन्वयिका च प्रो.कमला पन्तः सर्वेषां अतिथिनां स्वागतं कृत्वा संस्कृतभारत्या: कार्यस्य प्रशंसाम् अकरोत्, भविष्ये अपि एतादृशं कार्यं कर्तुं स्वस्य इच्छां प्रकटितवती।

सा अवदत् यत् अस्मिन् संभाषणशिबिरे बहवः महाविद्यालयस्य छात्राः दशदिनानि यावत् संस्कृतसम्भाषणं पठितवन्त:। कार्यक्रमस्य सञ्चालानं डॉ. हेमन्तजोशी अतिथीनां डॉ. दीपिका पाण्डेयवर्या धन्यवादं च कृतवन्तौ । कार्यक्रमे प्रकाशरुवाली, मेघा, नेहा च शिबिरस्य सम्भाषणकर्तार: स्वस्य अनुभवान् प्रस्तुतवन्तः।

अवसरेsस्मिन् डॉ. गोविन्दसिंहबोरा, डॉ. ममता पंत, डॉ. कैलाशसनवाल:, डॉ. दिवाकरटम्टा, डॉ. अनिता भोज:, डॉ. कविता बिष्ट:, डॉ. नीता पाण्डेय:, भारती पाण्डेय:, डॉ. सुधीरनैनवाल:, डॉ. हेमा देवी, डॉ. प्रमोदजोशी, आकांक्षा तथा च अनेके संस्कृतविद्वांसः शिविरार्थिनः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button