संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
नैनीताल

छात्रेषु नीरजबिष्टेन छात्रासु च निशा मेहरा इत्यनया च विजेतृपदकं लब्धम्

रामनगर-महाविद्यालये वार्षिक-क्रीडासमारोहः सम्पन्नः

वृत्तहरः-डॉ.मूलचन्द्रशुक्लः।रामनगरम्। पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालये द्विदिवसाभ्यामग्रेसरन्त्याः वार्षिक-क्रीडायाः समापनं जातम्।तत्र नीरज बिष्टः छात्र चैंपियनशिप छात्रा चैम्पियनशिप निशा मेहरा इत्यनया च अर्जिता। छात्रवर्गे नीरज बिष्टः स्वर्णपदकद्वयेन रजतपदकत्रयेण च (मेडल)सर्वाधिक पदकानि अर्जितवान्। छात्रावर्गे निशा मेहरा द्वारा स्वर्णपदकत्रयं रजतपदकद्वयं च विजित्य चैम्पियनशिप लब्धम् ।द्वितीयदिवसे छात्रवर्गस्य 10000 परिमितं धावनप्रतियोगितायां प्रथमं स्थानं नीरज बिष्टः ,द्वितीयं स्थानं गौरवः ,तृतीयं स्थानं सञ्जयः सान्त्वनापुरस्कारं च अंशुमन कोहली प्राप्तवन्तः।1500 परिमितं धावनप्रतियोगितायां प्रथमे स्थाने गौरव नेगी,द्वितीयस्थाने नीरज बिष्टः तृतीयस्थाने च अंशुमन कोहली आसन्।100 परिमितं धावनप्रतियोगितायां प्रथमस्थाने सावन नेगी, द्वितीयस्थाने सुमित बलोदी तृतीयस्थाने च ऋषभ कुमारः आसन् ।छात्रावर्गे 1500 परिमिते धावने प्रथमं स्थानं मीना ,द्वितीयं स्थानं बेनिका आर्या तृतीयं स्थानञ्च लक्ष्मी जोशी लब्धवत्यः। 100 परिमितं धावनस्पर्धायां प्रथमस्थाने भारती गिरी, द्वितीयस्थाने निशा मेहरा तृतीये स्थाने च बेनिका आर्या आसन्।छात्रवर्गस्य 4 चतुर्गुणित 400 रिले रेस अन्तर्सङ्काय प्रतिस्पर्धायां प्रथमे स्थाने तृतीयदलस्यस्य सुमितः,सावनः,राहुलः,अंकितश्च द्वितीयं स्थानम्,प्रथम दलस्यस्य नीरजः,गौरवः,संजयः,अंशुमनः,तृतीयं स्थानम्,चतुर्थदलस्य शैलेन्द्रः,यशदीपः,दिव्यांशुः,हिमांशुः च स्थानं लब्धवन्तः। छात्रावर्गस्य 4 चतुर्गुणित 400 रिले रेस अन्तर्सङ्काय प्रतिस्पर्धायां प्रथमे स्थाने प्रथमदलस्य निशा,योगिता,अनामिका,भारती च आसन्।द्वितीयस्थानं द्वितीयदलस्य मीना,लक्ष्मी, बेनिका, ईशा अंशुमन च प्राप्तवन्तः।तृतीयस्थाने तृतीयदलस्य सोनाली,खुशी,निशा,कल्पना च आसन्।समस्तविजयीप्रतिभागिभ्यो मुख्यातिथिः प्राचार्य- प्रोफे.एम.सी.पाण्डे वर्यः विशिष्ट- अतिथिः गणेश रावत महोदयः कुलानुशासकः प्रोफे. एस. एस. मौर्य महोदयश्च प्रमाणपत्राणि पुरस्कारान् च प्रदाय पुरस्कुर्वन्ति।अस्मिन् अवसरे मुख्यातिथिः प्रोफे. एम. सी. पाण्डेवर्यः विद्यार्थिनामु त्साहवर्धनपूर्वकं शिक्षया सह क्रीडाप्रतियोगितास्वपि अहमहमिकया अग्रे वर्धनाय विद्यार्थिभ्यः प्रोत्साहयति। विशिष्टातिथिवर्यः विजेतृप्रतिभागिभ्यो वर्धापनानि प्रयच्छति।क्रीडा प्रभारी संयोजकश्च डॉ.योगेशचन्द्रः अतिथिभिस्सह समेषां कार्तज्ञ्यं विनिवेदयति।कार्यक्रमस्य सञ्चालनं डॉ.अलका राजौरिया डॉ. डी. एन. जोशी च संयुक्तरूपेण कृतवन्तौ।निर्णायक- मण्डले क्रीडा-शारीरिकप्रशिक्षकः अजय सिंहः, जगदीश सिंहः,विनोद कुमारः सुशील कुमारश्च आसन्। विविधस्पर्धासम्पन्नकरणाय महाविद्यालयपरिवारेण सह विशेषावदानं याः ये च दत्तवन्तः। यथा- डॉ. दीपक खाती, कुसुमगुप्ता,डॉ.विजय कुमारः, डॉ.सुरेश चन्द्रा,डॉ.मुरलीधर कापड़ी,आनन्द बल्लभ रिखाड़ी, गोविन्द मेवाड़ी,सुशील कुमारः महेन्द्र आर्यश्च इत्यादयः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button