उत्तराखण्डनैनीतालसंस्कृत भारती

संस्कृतभारती-उत्तराञ्चलस्य भाषाप्रबोधनवर्गस्य भव्यारम्भः

उत्तराखण्डस्य नैनीतालजनपदे रामनगरे संस्कृतभारत्याः उत्तराञ्चलप्रान्तस्य सप्तदिनात्मक: आवासीय: भाषाप्रबोधनवर्गः दीपप्रज्वलनेन सरस्वतीवन्दनया च आरम्भः अभवत् । अतिथीनां परिचयं स्वागतं च श्रीमान् राकेशः सेमवालः अकरोत्। प्रान्तशिक्षणप्रमुखः डॉ. राघवः झा संस्कृतभारत्याः विविधकार्याणां विषये सर्वान् परिचितान् अकरोत्। उद्घाटनसत्रे मुख्यातिथिः सेवानिवृत्तप्रधानाचार्यः डॉ. सत्यप्रकाशः मिश्रः शिविरे आगतान् छात्रान् संस्कृतभाषायाः महत्वविषये अवगतवान्। सः संस्कृतभाषाध्ययनस्य अनेकलाभान् दर्शितवान्। सह-प्रान्तमन्त्री डॉ. चन्द्रप्रकाशः उप्रैती संघटनेन भाषायाः प्रचारप्रसाराय सञ्चालितानां विविधायामानां विषये विस्तरेण परिचयं कृतवान्।

विभागसंयोजकः डॉ. जगदीशचन्द्रः पाण्डेयः अतिथीनां धन्यवादं अकरोत्। कार्यक्रमस्य संचालनं डॉ. राजेशः शर्मः अकरोत्। अयं वर्गः रामनगरनगरे राममन्दिरस्य समीपे खत्रिसभाभवने आयोज्यते। डॉ. देवेंद्रप्रसादः हरबोलः शिविरस्य सर्वव्यवस्थाप्रमुखः अस्ति, यः सर्वान् आगन्तुकान् हार्दं स्वागतं व्यक्तवान्।शिविरे राज्यस्य सर्वेभ्यः जनपदेभ्यः आगतानां 60 शिक्षार्थिनां सहभागिता अस्ति। तत्र 20 अधिकाः कार्यकर्तारः अपि उपस्थिताः सन्ति। वर्गस्य शिक्षणप्रमुखः श्रीमान् कुलदीपः मैन्दोलः अस्ति।

संस्कृतभारत्याः प्रान्तसंघटनमन्त्री श्रीमान् गौरवः शास्त्री उक्तवान् यत् 5 एवं 6 जनवरी दिने तत्रैव स्थले प्रान्तसम्मेलनं भविष्यति। अस्मिन् सम्मेलनं राज्यस्य सर्वेभ्यः जनपदेभ्यः 250 कार्यकर्तारः उपस्थिताः भविष्यन्ति। अनेकाः विश्वविद्यालयानां कुलपतयः तथा विद्वांस: अपि आगमिष्यन्ति। प्रान्तसम्मेलने संस्कृतभाषायाः प्रचारप्रसाराय चर्चाः परिचर्चाः च भविष्यन्ति, कार्ययोजना च निर्मीयते। अवसरेस्मिन् कार्यक्रमे डॉ. मूलचन्द्रः शुक्लः, ज्योतिप्रकाशः, करनजोशी, सुनील: अमोली, मोहितः शर्मः, सन्तोषः , सलोनी, आनन्दः जोशी, महिमा चौधरी च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button