संस्कृतज्ञानां प्रति समाजस्य महती आशा : श्रीमान् जयप्रकाशगौतमः
प्रबोधनवर्गे 75 शिक्षार्थिनः 25 प्रबन्धकाः 10 शिक्षकाश्च समर्पिततया संस्कृतसाधनायां संलग्नाः सन्ति

पञ्जाबीबागस्थले देहल्यां जायमानस्य आवासीयप्रबोधनवर्गस्य द्वितीये दिवसे संस्कृतभारती सङ्घटनस्य अखिलभारतसङ्घटनमन्त्री श्रीमान् जयप्रकाशगौतमः समुपस्थितः। शिक्षार्थिनाम् उद्बोधनकाले महोदयेन उक्तं यत् संस्कृतस्य व्यावहारिकजीवनं प्रति आनेतुं युवानः नेतृत्वं कुर्वन्ति। इतिहासेऽपि प्रत्येकं युगे सर्वाणि परिवर्तनानि युवानः एव कृतवन्तः। महोदयेन उक्तं यत् प्रतिदिनं लक्षशः जनाः जन्म प्राप्नुवन्ति म्रियन्ते च परं यस्य जनस्य कार्येण राष्ट्रं, ग्रामः कुटुम्बादिकं च प्रसिद्धिं प्राप्नोति तस्य जन्म सफलम् । युवजनेषु मेधा ऊर्जा च भवति अतः ते सर्वदैव कार्याणि सम्पादयितुं तत्पराः भवन्ति। ये महापुरुषाः इतिहासे अभवन् तेषां मेधा ऊर्जा च राष्ट्राय हितसाधनदिशा संलग्ना आसीत्।

गौतममहोदयेन कथितं यत् वर्गे संस्कृतमयं वातावरणम् इति विशिष्टः अवसरः। अस्माभिः अस्य अवसरस्य सदुपयोगः करणीयः। प्रबोधनवर्गे 75 शिक्षार्थिनः 25 प्रबन्धकाः 10 शिक्षकाश्च समर्पिततया संस्कृतसाधनायां संलग्नाः सन्ति यत्र अहर्निशं संस्कृतसम्भाषणस्य अभ्यासः आचरणं च भवति ।







