देहलीसंस्कृत भारती

संस्कृतभारत्या देहलीप्रान्ते प्रबोधनवर्गस्य भव्यम् आयोजनम् अभवत्

संस्कृतगङ्गाधारायाः पुनरानयनाय संस्कृतानुरागिणः भगीरथाः भवामः - मुख्यातिथि: प्रो.यशवीरसिंह:

अद्य संस्कृतभारत्याः देहलीप्रान्तपक्षतः आवासीयस्य प्रबोधनवर्गस्य विधिवद्-उद्घाटनम् अभवत्। एषः वर्गः श्रीसनातनधर्मसरस्वती-बालविद्यामन्दिरे-वरिष्ठमाध्यमिकविद्यालये पञ्जाबीबागस्थले जायमानम् अस्ति । प्रबोधनवर्गे 75 शिक्षार्थिनः, 25 प्रबन्धकाः 10 च शिक्षकाः प्रतिभागितां कुर्वाणः सन्ति। कार्यक्रमस्य समारम्भः दीपप्रबोधनपूर्वकं वैदिकमङ्गलेन सरस्वतीवन्दनया च जातम् । तदा वर्गशिक्षणप्रमुखेण अजितेन मञ्चस्थानां परिचयः कारितः।


उद्घाटनकार्यक्रमे मुख्यातिथिरूपेण प्रोफेसर यशवीरसिंहः, संस्कृतभारती-उत्तरक्षेत्र-अध्यक्षः समुपस्थितः आसीत्। महोदयेन स्व-उद्बोधने संस्कृतसम्भाषणस्य वैशिष्ट्यानि आवश्यकता च उक्ता तदर्थं च सर्वे संस्कृतानुरागिणः भगीरथाः भवामः तेन संस्कृतगङ्गाधारायाः पुनरानयनं भविष्यति इति।
प्रान्तसहमन्त्रिणा डॉ. दिनेशकुमारेण वर्गस्य प्रस्तावना कृता । तेन उक्तं यद् भारतस्य आत्मा संस्कृतम् इति विचिन्त्य वयं वर्गे स्थिताः भवामः स्वमुखे च संस्कृतम् आनेतुं बद्धपरिकराः भवेम। वर्गाधिकारिणा डॉ रविदत्तशर्मणा वर्गस्य सङ्कल्पे शिक्षार्थिणां शिक्षकप्रबन्धकाणां च एकसूत्रतायाः विचारः उपस्थापितः। वर्गसहशिक्षणप्रमुखेण डॉ शिवनाथेन सर्वेषां धन्यवादः ज्ञापितः ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button