राजपथ इत्यत्र रामनगरमहाविद्यालयस्य गौरवं वर्धिष्यन्ते एनसीसी विद्यार्थिनः
रामनगरमहाविद्यालयस्य चत्वारः विद्यार्थिनः (कैडेट्स) गणतन्त्रदिवसशिविरे प्रतिभागितां करिष्यन्ति

वार्ताप्रेषकः-डॉ. मूलचन्द्रशुक्लः। रामनगरम्। 79 उत्तराखण्डवाहिनी, एनसीसी पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरश्रेण्याः सैनिकविद्यार्थिनः (कैडेट्स) सीनियर अधिकारी सक्षमः चौहानः,अण्डर अधिकारी सुमितः, सैनिकछात्रः मनोज कुमारः च एतेषां तथा च 24 उत्तराखण्ड वाहिनी एनसीसी श्रेण्याः सैनिक-छात्रा अञ्जलि गोस्वामी इत्यस्याः गणतन्त्रदिवसप्रदर्शनम् (परेड) इत्यर्थं चयनं सञ्जातम्। उक्ताः सैनिकविद्यार्थिनः गणतन्त्रदिवसशिविरे उत्तराखण्ड-निदेशालयस्य आरडीसीसमूहः (टीम) इत्यस्मिन् प्रतिभागं करिष्यन्ति।

एएनओ लेफ्टिनेंट डी.एन.जोशी महोदयेन उक्तं यत् उक्तचतुर्विद्यार्थिनां चयनम् उत्तराखण्ड-निदेशालय-देहरादून- द्वारा आयोजिते प्रीआरडीसी शिविरे साफल्यमवाप्य अभूत्। एते सैनिकविद्यार्थिनः गणतन्त्रदिवस-प्रदर्शन- (परेड) शिविरार्थं देहलीं प्रति अगच्छन्, तत्र भारतस्तरीयासु समायोजितासु विभिन्न- प्रतियोगितासु प्रतिभागितां कुर्वन्तः सन्ति। महाविद्यालयस्य चतुर्विद्यार्थिनामुपलब्धौ महाविद्यालयपरिवारेण सह प्राचार्यः प्रोफेसर एम.सी.पाण्डे वर्यः, 79 उत्तराखण्डवाहिनी इत्यस्याः कमान अधिकारी कर्नल राजेश कौशिकः, 24 यूके बटालियन इत्स्य कमान अधिकारी कर्नल एम.के. काण्डपालः च इयादयो शुभकामनापुरस्सरं वर्धापनानि प्रेषितवन्तः। एनसीसी विद्यार्थिनां परिजनैः सह महाविद्यालयीयेषु एनसीसी सैनिकविद्यार्थिषु सहर्षमुत्साहः जागृतः।
अस्मिन्नवसरे मेजर हरीशचन्द्र सिंह बिष्टः,कैप्टन आर.के.शर्मा,कैप्टन पंकज जैनः,कैप्टन भवतोष भट्टः,लेफ्टिनेंट कृष्णा भारती, सूबेदार मेजर पाकेश चौहानः, दीपेन्द्र सिंहः, सूबेदार महेश पाण्डे,बीएचएम तारा सिंहः इत्यादयो जनाः समुज्ज्वलभविष्यस्य शुभकामनां दत्तवन्तः। अञ्जलिः, सक्षमः, सुमितः,मनोजश्च एतैः चतुर्विद्यार्थिभिः सह (कैडेट्स) 79 यूके बटालियन एनसीसी नैनीतालस्य एएनओ नायकः पंकज जैन अपि उत्तराखण्ड- निदेशालयस्य समूहेन सह देहलीस्थ-गणतन्त्रदिवसशिविरे स्वराज्यस्य प्रतिनिधित्वं कुर्वन्नस्ति।*







