नैनीताल

संस्कृतस्य शिक्षणेन एव संस्कृतेः रक्षणं सम्भवति : – श्रीमान् सञ्जीवपाठकः

अद्य प्रबोधनवर्गस्य पञ्चमे दिने दीपप्रबोधनार्थं श्रीमान् विकासयादवः उपस्थितः। महोदयः गुरुग्रामस्य उद्यमी अस्ति। महोदयेन संस्कृतस्य प्रसाराय सनातनसंस्कृतेः संवर्धनस्य विषये उक्तम्।
बौद्धिकसत्रे उत्तरक्षेत्रप्रशिक्षणप्रमुखः श्रीमान् सञ्जीवपाठकः समुपस्थितः। संस्कृतभारती सङ्घटनस्य शिक्षण-आयामानां विषये उक्तवता महोदयेन बालकेन्द्रस्य विषये कथितं यत् तत्र लघुबालकानां संस्कारसंस्थापनाय संस्कृतेश्च बीजसंस्थापनाय अवसरः भवति। एवमेव प्रतिसप्ताहं कार्यकर्तृणां मेलनेन स्नेहबन्धः दृढः भवति। साप्ताहिकमेलने शिक्षणस्य अपि अभ्यासः क्रियते। वर्गे संस्कृतमयं वातावरणं कर्तुं सर्वेषां सहयोगः अपेक्षितः अस्ति । गीताशिक्षणकेन्द्रम् , सुभाषितकक्षाः, श्लोकपाठनकेन्द्रम् , शलाकापरीक्षा इत्यादीनां शिक्षणायामानां माध्यमेन सङ्घटनस्य कार्यं वर्धनीयम् इति । चतुर्थदिवसे बौद्धिके श्रीमान् हुल्लासमहोदयः समागतः। महोदयेन संस्कृतभारती इति सङ्घटनस्य कार्यकर्तृणां विषये कार्याणाञ्च विषये कथितम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button