संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डनैनीताल

व्यावसायिक-पाठ्यक्रममाध्यमेन सम्भविष्यति कौशलविकास: — “एम.सी.पाण्डे”

पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालये रामनगरे स्नातक-स्नातकोत्तर-कक्षासु समारभ्यते उद्योगपरक-पाठ्यक्रमेण कौशल-विकास:

वार्ताहर:-डा.मूलचन्द्रशुक्ल:।रामनगरम्।
पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालये रामनगरे विद्यार्थिनः स्नातक-स्नातकोत्तर-कक्षासु अध्ययनेन सह उद्योगपरक-पाठ्यक्रमेषु प्रवेशं प्राप्य कौशल-विकाशं कुर्वन्तु इत्युद्दिश्यैव सङ्गोष्ठी सञ्जाता। प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः महाविद्यालयस्य व्यावसायिक- अध्ययन-केन्द्रस्य सङ्गोष्ठ्यां विभाग-संयोजकान् सम्बोधयन् वक्ति यत् व्यावसायिक-पाठ्यक्रमाः युवजनैः सह अवश्यमेव संयुताः भवेयुः। सङ्गोष्ठ्यां मेमासस्य 31 दिनाङ्कं यावत् विभिन्न- व्यावसायिक-पाठ्यक्रमेषु अन्तर्जालमाध्यमेन प्रवेशाय लक्ष्यं निर्धारितं ।

“व्यावसायिक-अध्ययन-केन्द्रम्” इत्यस्य समन्वयकः डॉ. सुमनकुमारः अस्मिन् सन्दर्भे छात्र-छात्राभ्यः सूचनां प्रसारयन् वदति यत् पर्यटन-अध्ययनं, यात्रा एवं पर्यटनप्रबन्धनं, इको-पर्यटनं, कार्यालयप्रबन्धनम् एवं सचिवीय-अभ्यास:, संगणकीयलेखा, योग: एवं वैकल्पिकचिकित्सा, स्नातकोत्तर-योगश्च इत्यादिषु महत्त्वपूर्णेषु उपाधि-प्रमाणपत्र-आदिषु पाठ्यक्रमेषु प्रवेशप्राप्त्यर्थं “समर्थ-पोर्टल” इत्यत्र सर्वप्रथमं पञ्जीकरणमावश्यकमस्ति तदनन्तरं च प्रवेशार्थमुपस्थितिः आवश्यकी। महाविद्यालयस्य विद्यार्थिनः द्विधा उपाधिं प्राप्तुं शक्नुवन्ति।

डॉ. निवेदिता वदति यत् पर्यटनक्षेत्रे सञ्चालिताः त्रिविधाः कार्यक्रमाः पर्यटकमार्गदर्शक:, “रिसोर्ट हॉस्पिटैलिटी” इत्यादिषु क्षेत्रेषु उद्योगावसराः समुपलब्धाः भवितुमर्हन्ति। स्नातकोत्तरयोगस्यसंयोजकः डॉ. मूलचन्द्रेण उच्यते यत् गतवर्षे योगविभागीयाः विद्यार्थिनः उत्तराखण्डराज्यात् बहिरपि पञ्जाबप्रान्ते सर्वकारीय-उद्योगं प्राप्तवन्तः।

अस्यां व्यावसायिकसङ्गोष्ठ्यामधोलिखित-संयोजका: , तत्र डॉ. सुमनकुमारः,डॉ. निवेदिता अवस्थी, डॉ. मूलचन्द्रशुक्लः, “डिप्लोमा इन ऑफिस मेनेजमेंट” इत्यस्य डॉ. दीपकखाती, “डिप्लोमा इन ईको-टूरिज्म” इत्यत: डॉ. कृष्णा भारती, “डिप्लोमा इन टूरिज्म स्टडीज” इत्यस्य डॉ. जे.पी.त्यागी, “डिप्लोमा इन कम्प्यूटराईज्ड अकाउण्टिंग” अस्य डॉ. ममता भदोला जोशी च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button