संस्कृतम् अस्माकं व्यवहारे भवेत् -“चंद्रशेखरजोशी”
संस्कृतभारत्या: विस्तारक: ज्योतिप्रकाशजोशी शिबिरशिक्षकरुपेण सततं संस्कृतसम्भाषणेन सर्वेषां मुखे संस्कृतम् आनयनाय प्रयत्नं विदधाति

पिथौरागढं। उत्तराखण्डस्य सीमान्तपिथौरागढ़जनपदे गंगोलीहाटक्षेत्रे “जी.जी.आई. सी.” इत्यस्मिन् विद्यालये संस्कृतभारत्या: सरलसंस्कृतसम्भाषणशिबिरस्य आरम्भ: जात: । कार्यक्रमस्य उद्धाटनम् दीपप्रज्वालनेन अभवत् ।विद्यालयपरिवारेण हृदयफलकेन रांकवप्रदानेन मुख्यातिथिमहोदयस्य चंद्रशेखरजोशीवर्यस्य स्वागतं कृतम् । मुख्यातिथिना उक्तं यत् संस्कृतम् अस्माकं जननी अस्ति देववाणी अस्ति । इयं भाषा विश्वस्य सर्वाषां भाषाणां जननी अस्ति एवं सः कथामाध्येमन छात्राणाम् समक्षे संस्कृतम् अस्माकं व्यवहारे भवेत् इति सः बोधितवान्।
शिविरस्य उद्धाटनसमये विद्यालस्य प्रधानाचार्या श्रीमती सुमित्रा बोनालमहोदया एवं समस्तशिक्षिका: एव समस्तछात्राः एवं मुख्यातिथिरुपेण संघस्य सहजिलाकार्यवाह: श्रीमानचंद्रशेखरजोशीमहोदय: एवं बजरंगदलस्य नगर-अध्यक्ष: श्रीमान् ललित: उप्रेती इत्यादय: उपस्थिता: आसन् । संस्कृतभारत्या: विस्तारक: ज्योतिप्रकाशजोशी
शिबिरशिक्षकरुपेण सततं संस्कृतसम्भाषणेन सर्वेषां मुखे संस्कृतम् आनयनाय प्रयत्नं विदधाति।