दर्शनविभागे भारतीयदार्शनिकदिवस: मिश्रितविधाने भव्योत्सवेन समाचरित:
श्रीनगरगढ़वालं। भारतीयदार्शनिकदिवस: जगद्गुरु-आदिशंकराचार्यजयन्त्या: शुभोपलक्ष्ये समाचर्यते। अवसरेस्मिन् हेमवतीनंदनबहुगुणा- गढ़वालविश्वविद्यालयस्य दर्शनविभागद्वारा भारतीयदार्शनिकदिवसकार्यक्रमस्य आयोजनं समाचरितं । कार्यक्रमे सर्वेषां स्वागतं कुर्वन् विभागाध्यक्षः प्रो.इन्दुपाण्डेयखण्डूरी ऐतिहासिकपृष्ठभूमिं च अस्य दिवसस्य प्रासंगिकतां, शंकराचार्यस्य जीवनवृत्तं च प्रकाशितवती। सा अवदत् यत् श्रृङ्गेरीमठतः एषा परम्परा अटलबिहारीवाजपेयीवर्यस्य समये आरब्धा, या २०२३ तमे वर्षे बहुकालानन्तरं पुनः आरब्धा। दर्शनशास्त्रविभागे प्रथमवारं एतत् आयोजनं कृतम् अस्ति तथा च एतत् निरन्तरं भविष्यति इति आनन्दस्य विषयः। सा शङ्करस्य दर्शनं श्रेष्ठस्य निःस्वार्थस्य कर्मयोगिनः जीवनदर्शनम् इति वर्णितवती।
कार्यक्रमे अन्तर्जालरूपेण सम्मिलितः मुख्यवक्ता दीनदयाल- उपाध्यायविश्वविद्यालयस्य दर्शनविभागस्य विभागाध्यक्ष: प्रो.द्वारकानाथ: शंकराचार्यस्य दर्शनं चिंतनस्य पराकाष्ठा अस्तीति उक्तवान् च जगति व्यावहारिक-आध्यात्मिक- कल्याणस्य मार्गं दर्शितवान् इत्यप्यवोचत् । तेनोक्तं यत् शंकराचार्य: केवलं ३२ वर्षेषु एव शताब्दीनां कार्यं कृतवान् ।
कार्यक्रमस्य अध्यक्षतां कुर्वन् प्रो.हिमांशुबौडाई,संकायाध्यक्ष:
“मानविकी तथा सामाजिकविज्ञान” इत्यत: प्राचीन-मध्ययुगीन-आधुनिक-दार्शनिक-परम्पराणां संक्षेपेण व्याख्यानं कृत्वा गान्धी-दर्शने सर्वोदयस्य विचारधारायां चर्चां कृतवान् ।
कार्यक्रमस्य संचालनं दर्शनशास्त्रविभागस्य प्राध्यापिका डॉ. कविताभट्टद्वारा कृतम्। दर्शनशास्त्रविभागस्य सहायकप्राध्यापिका डॉ. ऋषिकावर्मा धन्यवादज्ञापनं कृतवती।
कार्यक्रमे शिक्षणेतरकर्मचारिषु ओमप्रकाशसहितं शोधकर्ता जीजा उरहमान:, नवीन:, मीनाक्षी, दीपिका, महिपाल:, पीयूष:, आलोक:, अभिषेक:, शंकर: एवं दिग्विजय: आदय: तथा दर्शनविभागसहितं विभिन्नविभागस्य शोधकर्तार: तथा छात्राश्च उत्साहपूर्वकं भागं गृहीतवन्त: ।