देहली
साप्ताहिकमेलनद्वारा कार्यकर्तृणां सङ्घटनस्य च विकासः

देहलीप्रान्ते जायमाने प्रबोधनवर्गे षष्ठे दिवसे कार्यकर्तृणां विकासाय सङ्घटनस्य गतिविधिषु अन्यतमस्य साप्ताहिकमेलनम् इत्यस्य शिक्षार्थिनां समक्षं साक्षात् प्रदर्शनं जातम्। एतस्य उद्देश्यं शिक्षार्थिनां मनस्सु साप्ताहिकमेलनस्य सङ्कल्पनायाः संस्थापनम् इति आसीत्। अत्र आदर्शसाप्ताहिकमेलनस्य प्रारूपस्य अनुगुणं व्यावहारिकं दर्शनं सर्वैः कृतम्। साप्ताहिकमेलनस्य सञ्चालनं, अवधातव्याः अंशाश्च तत्र प्रदर्शिताः। सङ्घटने कार्यकर्तृणां निरन्तरं मेलनेन तेषां परस्परं स्नेहाभिवर्धनं भवति तेन च संस्कृतकार्यस्यापि अभिवृद्धिः जायते। साप्ताहिकमेलनस्य प्रदर्शनं दृष्ट्वा सर्वेऽपि शिक्षार्थिनः प्रेरिताः अभवन्। तैः वर्गानन्तरं स्वस्वकार्यक्षेत्रं गत्वा साप्ताहिकमेलनानि संयोजयितुं सङ्कल्पः कृतः।
Follow Us







