संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहलीसंस्कृत भारती

संस्कृतसंस्कृत्योः पारसीकभाषायाश्च अन्त: सम्बन्धविषये विशिष्टव्याख्यानं विज्ञानप्रदर्शिनी वस्तुप्रदर्शिनी च

दिल्ली। आभारतं संस्कृतसप्ताहस्य आचरणं जायमानमस्ति। अस्मिन्नेव उपक्रमे देहलीविश्वविद्यालयस्य संस्कृतविभाग: संस्कृतभारती देहलीप्रांत: इत्यनयो: संयुक्ततत्वावधाने “संस्कृतसंस्कृत्योः पारसीकभाषायाश्च अन्त: सम्बन्ध:” इतिविषयमाधृत्य विशिष्टव्याख्यानं विज्ञानप्रदर्शिनी वस्तुप्रदर्शिनी च विहिता।

अस्य कार्यक्रमस्य विशिष्टवक्ता आचार्याश्चन्द्रशेखर: अध्यक्ष: देहलीविश्वविद्यालयस्थस्य पारसीकभाषाविभागस्य मुख्यातिथि: आचार्य: रमेशकुमारपाण्डेय:, कुलपतिचरः श्रीलालबहादुरशास्त्रिकेन्द्रीय संस्कृतविश्वविद्यालयस्य देहलीस्थस्य अध्यक्षश्च देहलीप्रांतसंस्कृतभारत्याः विद्वांस: आसन् ।

सभापति: आचार्य: अमिताभचक्रवर्ती अधिष्ठाता देहलीविश्वविद्यालयस्थस्य कलासंकायस्य तथा च देहलीविश्वविद्यालयस्य संस्कृतविभागाध्यक्षा: ओमनाथबिमलीमहोदय: संस्कृतविभागस्य एव अन्येsपि सम्माननीयाः प्राध्यापका: यथा रणजित् बेहेरा , भारतेन्दु पाण्डेय:, मीराद्विवेदी, डॉ. धनञ्जयकुमाराचार्यः तथा च संस्कृतभारतीदेहलीप्रांतस्य कार्यकर्तार: यथा मनीष: कमलानगरजनपदविस्तारक:, दिव्यरंजन: महाविद्यालयगणसहप्रमुख:, अंगिरस: कमलानगरजनपदप्रचारप्रमुख:, कृष्णकान्त:, प्रीति:, पंकज:, मनीष:, रनिता, तान्या शर्मा, सृष्टि:, अंशिका, वंशिका, रोहितः, विवेक:, अमन:, अभिजीत:, दीपक:, अजीत:, ऋषभ:, सौरभ: इत्यादय: समुपस्थिता: आसन्।

तत्र सामाजिकानां कृते श्लोकोच्चारणम् आसीत्। श्लोकोच्चारणात् परं तेभ्यः संस्कृतभारतीपक्षतः श्रीमद्भगवद्गीतापुस्तकप्रदानेन संस्कृतंवदतुपुस्तकप्रदानेन चाकलेहप्रदानेन च प्रचारः जनेषु संस्कृतं प्रति अभिरुचि: जागृता।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button