संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
हरियाणा

महर्षिवाल्मीकिसंस्कृतविश्व-विद्यालये 80 प्रतिभागिभि: कार्यशालायां भागग्रहणं कृतम्

वार्ताहर:-नवीनशर्मा।हरियाणा।
महर्षिवाल्मीकिसंस्कृतविश्वविद्यालये संस्कृतलेखनकौशलसंवर्धन कार्यशालाया: द्वितीये दिवसे प्रथमसत्रे सत्राध्यक्षरूपेण ज्योतिषविभागस्य विभागाध्यक्ष: डॉ. नरेशशर्मवर्य: उपस्थित:। प्रशिक्षकेण श्रीगुरजीतसिंहवर्येण सत्रमिदं स्वीकृत्य छात्राणां संस्कृत-लेखनसम्बन्धि-समस्यानां निराकरणं कृतम्।

सत्राध्यक्षेण संस्कृत-लेखनकौशल-संवर्धनाय सर्वेषां छात्राणां प्रोत्साहनं कृतम्। द्वितीये सत्रे सत्राध्यक्षरूपेण साहित्यविभागस्य सहायकाचार्य: डॉ. रामानन्दमिश्रवर्य: समुपस्थित:।मञ्चसञ्चालनं सत्येन्द्रवर्येण च कृतम्। श्रीगुरजीतवर्येण चित्,चन्,कत्वा,तुमुन् आदीनां प्रत्ययानां परिचय: प्रयोगश्च कारित:, संस्कृतभाषायां वाक्यरचनाया: अभ्यासश्च कारित:।

कार्यशालाया: अन्ते आयोजनसमिते: अध्यक्षेण डॉ. सुरेन्द्रपालवर्येण सूचना प्रदत्ता यत् सितम्बरमासस्य चतुर्थे दिनांके सोमवासरे विश्वविद्यालये संस्कृतशिक्षकसम्मेलनमपि भविष्यति। तेन कार्यशालाया: आयोजनार्थं कुलपते: प्रो. रमेशचन्द्रभारद्वाजस्य प्रशिक्षकवर्यस्य सर्वेषां सहयोगीनाम् आचार्याणाञ्च धन्यवाद: विज्ञापित:।
तृतीयसत्रे डॉ. नरेशशर्मण: संयोजकत्वे संस्कृत-निबन्धलेखन-प्रतियोगिता आयोजिता। कार्यशालायां 80 प्रतियोगितायाञ्च 65 प्रतिभागिन: भागग्रहणं कृतवन्त:। अनन्तरं सर्वै: आचार्यै: प्रतियोगिता-परीक्षाया: उत्तरपुस्तिकानां मूल्यांकनं विहितम्। तै: प्रथम-द्वितीय-तृतीयपुरस्कार-प्राप्तवतां छात्राणां चयनं कृतम्।

कार्यशालाया: संयोजकेन डॉ. नवीनशर्मणा कथितं यत् विजेतृणां घोषणा सितम्बरमासस्य चतुर्थे दिनांके सोमवासरे पुरस्कारवितरण-समारोहे भविष्यति। कुलपतिना प्रो. रमेशचन्द्रभारद्वाजेन आयोजनसमिते: संगोष्ठी स्वीकृता एवञ्च संस्कृतशिक्षकसम्मेलनस्य व्यवस्थानां विषये चर्चा कृता। अस्यां कार्यशालायां डॉ.जगतनारायण:, डॉ. शर्मीला, डॉ. शीतांशु: त्रिपाठी, डॉ. चन्द्रकान्त:,डॉ. सत्येन्द्र:, डॉ.कुलदीप:, डॉ.सविता इत्यादय: समुपस्थिता:अभवन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button