संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
हरियाणा

महर्षिवाल्मीकिसंस्कृत-विश्वविद्यालये संस्कृतसप्ताहस्य शुभावसरे आयोजित-त्रिदिवसीय- संस्कृतकार्यक्रमाणां समापनं जातम्।

सर्वोत्तम-संस्कृतनिबन्धलेखक-पुरस्कारं धर्मशास्त्रविभागस्य छात्रा निकिता प्रप्रथमं स्थानं 2100/- रुप्यकाणि च प्राप्तवती

हरियाणाराज्ये महर्षिवाल्मीकिसंस्कृत विश्वविद्यालये कैथलनगरे सितम्बरमासस्य चतुर्थे दिनांके संस्कृतशिक्षकसम्मेलनं जातम्। सम्मेलनेsस्मिन् 50 संस्कृतशिक्षकै: भागग्रहणं कृतम्। प्रारम्भे परिचयसत्रे सर्वेषां शिक्षकाणां परिचय: जात:। सम्मेलने संस्कृतक्षेत्रे आगतानां विविध-समस्यानां निवारण-विषये चर्चा जाता। विश्वविद्यालयस्य माननीय-कुलपतिमहोदयेन स्व-उद्बोधने कथितं यत् संस्कृतशिक्षका: संस्कृते: सम्पोषका: भवन्ति। विद्यालयस्तरे छात्रा: संस्कृतं पठित्वा अनन्तरं विश्वविद्यालये प्रवेशं प्राप्नुवन्ति। संस्कृतक्षेत्रस्य सर्वे बान्धवा: एकस्यैव परिवारस्य सदस्या: भवन्ति अत: अस्माभि: मिलित्वा संस्कृतोन्नयनार्थं चिन्तनीयम्। सम्मेलने कुरुक्षेत्रत: गीतामनीषी श्रीहरिदेवशास्त्रिवर्योsपि समागत:। तेन कथितं यत् संस्कृतं सरलमाध्यमेन प्रायोगिकरीत्या रुचिपूर्णरीत्या च पाठनीयम्। अनन्तरं संस्कृतमंचकैथलस्य अध्यक्षेण श्रीईश्वरदत्तभारद्वाजवर्येण उक्तं यत् संस्कृतक्षेत्रे छात्राणां संख्या अपि संस्कृतशिक्षकेषु निर्भरा भवति। यदि रुचिपूर्णरीत्या पाठ्यते तर्हि विद्यालयेषु छात्राणां संख्यायाम् अवश्यमेव वृद्धिर्भविष्यति।

सम्मेलने प्रमुखरूपेण जयभागवानशास्त्री,सुनील आत्रेय:,श्रीकृष्णचन्द्र:,बलवानशास्त्री, डा. सुमन,डा. ज्योति लता,डा.बबीता, सुनीता,वीरभान आदय: अनेके संस्कृतशिक्षका: समुपस्थिता:। कार्यक्रमस्य संयोजक: डॉ देवेन्द्रसिंह: आसीत्। मंचसञ्चचालनं ज्योतिषाचार्येण डॉ. नवीनशर्मणा कृतम्।
एतस्मिन् कार्यक्रमे संस्कृतनिबन्धलेखनप्रतियोगिताया: परिणामानां घोषणा अपि जाता। प्रत्येकस्मिन् विभागे छात्रा: प्रथमं 1100/- द्वितीयं 700/- तृतीयं 500/- स्थानं सम्मानित-धनराशिश्च प्राप्तवन्त:। सर्वोत्तम-संस्कृतनिबन्धलेखक-पुरस्कारं धर्मशास्त्रविभागस्य छात्रा निकिता प्रप्रथमं स्थानं 2100/- रुप्यकाणि च प्राप्तवती। एतस्मिन् एव कार्यक्रमे पुरस्कारवितरण-समारोहोsपि जात:। यस्मिन् सर्वे प्रतिभागिन: पुरस्कृता: अभवन्।
कार्यक्रमेsस्मिन् प्रो. भागसिंहबोदला, डॉ.जगतनारायण:, डॉ. सुरेन्द्रपाल:, डॉ. रामानन्दमिश्र:, डॉ.कृष्णचन्द्रपाण्डेय:, डॉ. शीतांशु: त्रिपाठी, डॉ.कुलदीपसिंह:, डॉ. सत्येंद्र: आदय: आचार्या: समुपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button