संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनहरिद्वार

द्वितीयराजभाषायां शिक्षकदिवसोपलक्ष्ये उत्तराखण्डे शुभकामनासन्देशं प्रसारितं जातं च संस्कृतनिदेशकेन प्रदत्ता: शिक्षकेभ्य: शुभकामना:

।।नूनमेव महान् शिक्षाविद् डॉ. सर्वपल्लीमहोदय : अत्यन्तं दार्शनिकः, शिक्षाविद्, विचारकश्चासीत् अस्माभिः अपि तस्य आदर्शशिक्षकस्य विचारान् गुणान्, जीवनमूल्यानि च मनसि निधाय शिक्षाजगति किमपि नवोन्मेषपूर्णं सकारात्मकं परिवर्तनं करणीयम् । तैरुक्तं यत् शिक्षक: समाजस्य पथप्रदर्शक : तिमिरनाशकः ज्ञानप्रकाशकश्च भवति । अतः शिक्षकः 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते, विद्या परा देवता, या विद्या सा विमुक्तये, विद्याधनं सर्वधनप्रधानम्, ज्ञानं तृतीयं मनुजस्य नेत्रम्, इत्यादिनाम् संस्कृतामृतवाक्यानां क्रियान्वयनं छात्रद्वारा कारयति--"श्रीशिवप्रसादखाली"।।

उत्तराखण्ड।निदेशक:, उत्तराखण्डसंस्कृतशिक्षाहरिद्वारस्य एवं अपरनिदेशकः प्रारभिकशिक्षाउत्तराखण्डदेहरादूनस्य तथा च सचिवः उत्तराखण्डसंस्कृताकादमीहरिद्वारस्य श्रीशिवप्रसादखालीवर्य: शिक्षकदिवसोपलक्ष्ये समेभ्य: शिक्षकेभ्य: शुभकामनासन्देशं उत्तराखण्डराज्ये प्रसारितवान् । तै: संस्कृतानुरागिभि: सह विद्वद्भ्यः, अधिकारिभ्य:, प्राचार्यभ्यः , प्रधानाचार्येभ्यः, प्रधानाध्यापकेभ्यः, कर्मचारिभ्यः, छात्रेभ्य:, छात्राभ्यश्च शिक्षकदिवसस्य हार्दिक्यः शुभकामनाः वितरिता: । तै: देशस्य पूर्वराष्ट्रपतेः भारतरत्नसम्मानेन सभाजितस्य महत: शिक्षाविद डॉ. सर्वपल्ली राधाकृष्णन्महोदयस्य जयन्तीम् उपलक्ष्य सितम्बरमासस्य पञ्चमे दिनाङ्के यदा देशे सर्वत्रापि शिक्षकदिवसोल्लास: समायोज्यते तदा संस्कृतेन सर्वेभ्य: शुभकामना: प्रदत्ता: ।

संस्कृताकादम्या: सचिववर्येण कथितं यत् नूनमेव महान् शिक्षाविद् डॉ. सर्वपल्लीमहोदय : अत्यन्तं दार्शनिकः, शिक्षाविद्, विचारकश्चासीत् अस्माभिः अपि तस्य आदर्शशिक्षकस्य विचारान् गुणान्, जीवनमूल्यानि च मनसि निधाय शिक्षाजगति किमपि नवोन्मेषपूर्णं सकारात्मकं परिवर्तनं करणीयम् । तैरुक्तं यत् शिक्षक: समाजस्य पथप्रदर्शक : तिमिरनाशकः ज्ञानप्रकाशकश्च भवति । अतः शिक्षकः ‘अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते, विद्या परा देवता, या विद्या सा विमुक्तये, विद्याधनं सर्वधनप्रधानम्, ज्ञानं तृतीयं मनुजस्य नेत्रम्, इत्यादिनाम् संस्कृतामृतवाक्यानां क्रियान्वयनं छात्रद्वारा कारयति।

श्रीखालीवर्येण शिक्षकगुणमुद्धरितं यत् कुलार्णवतन्त्रे शिक्षकस्य षडगुणा: कथिता: सन्ति यथा- प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा । शिक्षको बोधकश्चैव षडैते गुरवः स्मृता ॥
अत: श्रेष्ठसमाजस्य निर्माणे देशस्य विकासे च शिक्षकस्य महती भूमिका वर्तते । शिक्षकः सततं छात्राणां बौद्धिकं चारित्रिकं सामाजिकञ्च विकासाय प्रयत्नरतो भवति । वस्तुतः शिक्षकं गुरुं वा विना ज्ञानं न सम्भवतीति ज्ञायते । तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय: उत्तमम् । महर्षिणा व्यासेन उक्तं यद् गुरुं विना मानवस्य इहलौकिक पारलौकिकं च सिद्धिर्न जायते न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् । न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः ॥

नवाचाररुपेण एवं च सामाजिकविकाससन्दर्भे संस्कृतनिदेशकवर्येण प्रोक्तं यत् महाकविकालिदासः कथयति यत् समाजविकासक्रमे आत्मचिन्तनं विधाय समाजे नवाचार: जागरूकता च अनिवार्या – ‘पुराणमित्येव न सा साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । अस्माभिरपि पाठ्यक्रमनिर्माणे मूल्यानां समावेशः करणीयः, शिक्षणे शिक्षणकौशलानां शिक्षणसूत्राणां च प्रयोगो विधेयः, शिक्षणशैली अधिगमश्च वर्धनीयः । अस्माकं छात्रा : विद्यां सुविद्यां चाधीत्य सत्यं वद, धर्मं चर, न दैन्यं न पलायनं, चेत्यादीनि अमृतवचनानि हृदये निधाय समाजाय प्रबोधनं कुर्युः इत्येषा अपेक्षा समाजस्य वर्तते ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button