संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
हरियाणा

संस्कृतलेखनकौशलसंवर्धन-कार्यशालाया: आयोजनम्

विश्वविद्यालये चतुर्थे दिनांके भविष्यति संस्कृतशिक्षकसम्मेलनम् । सम्मेलने संस्कृतशिक्षकै: सह संस्कृतक्षेत्रे आगतानां विविध-समस्यानां निराकरणाय विचारविमर्श: भविष्यति।

व्यवहारे संस्कृतम् आनेतव्यम्-
“कुलपति: प्रो. रमेशचन्द्रभारद्वाज:”

हरियाणा।संस्कृतदिवसमुपलक्ष्ये महर्षिवाल्मीकिसंस्कृतविश्वविद्यालये सितम्बरमासस्य प्रथमे दिनांके द्विदिवसीय-संस्कृतलैखनकौशलसंवर्धन-कार्यशालाया: शुभारम्भ: दीपप्रज्वालनेन जात:। मंगलाचरणं श्रीमता अभिषेकेन कृतम्।उद्घाटनसत्रे विश्वविद्यालयस्य कुलपति: प्रो. रमेशचन्द्रभारद्वाज:, आयोजनसमिते: अध्यक्ष: डॉ. सुरेन्द्रपाल:, प्रशिक्षकरूपेण पंजाबविश्वविद्यालयस्य संस्कृतविभागस्य अनुसन्धाता श्रीगुरजीतसिंहश्च समुपस्थिता:। एभि: दीपप्रज्वालनं कृत्वा कार्यक्रमस्य शुभारम्भ: कृत:। कुलपतिना प्रो. रमेशचन्द्रभारद्वाजेन स्व-उद्बोधने शिक्षकेभ्य: विद्यार्थिभ्यश्च सन्देश: प्रदत्त: यत् सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै इति भावनया संस्कृतविश्वविद्यालये संस्कृतमयं वातावरणं निर्मातुं प्रोत्साहनं कृतम्। तेनोक्तं यत् व्यवहारे संस्कृतम् आनेतव्यम्। विश्वविद्यालये विद्यार्थिषु संस्कृतलेखनकौशलस्य विकासो भवेत् एतद् विचिन्त्य कार्यशालाया: अस्या: आयोजनं कृतम्।

कार्यशालाया: प्रशिक्षकेण श्रीगुरजीतवर्येण संस्कृतलेखनकौशलसंवर्धने महत्वपूर्ण-विषयानां
यथा कारकपरिचय:, विशेषणविशेष्यभावकथनम्, पुरुषव्यवस्थायाश्चादिनाम् ज्ञानम् कारितम्। छात्रेषु अतीव उत्साह: दृष्ट:। छात्रै: लेखनसन्दर्भे विविधा: जिज्ञासा: कृता: तेषां जिज्ञासानां समाधानमपि जातम्। अस्मिन् कार्यक्रमे मञ्चसंचालनं ज्योतिषाचार्येण डॉ.नवीनशर्मणा कृतम्।

संस्कृत-निबन्धलेखनप्रतियोगिताया: आयोजनम्
द्वितीयदिवसे प्रथमसत्रे द्वितीयसत्रे च कार्यशाला एव भविष्यति । तृतीयसत्रे निबन्धलेखनप्रतियोगिता भविष्यति। यस्यां प्रतियोगितायां प्रत्येकस्मिन् विभागे विजेतृभ्य: प्रतिभागिभ्य: प्रथमं(1100/-) द्वितीयं(700/-) तृतीयं (500/-) पुरस्कारा: प्रदास्यन्ते। सर्वेषु विभागेषु सर्वोत्तम-निबन्धलेखकाय 2100/- रुप्यकाणि स्मृतिचिह्नं च विश्वविद्यालयपक्षत: दास्यते। आहत्य 25 पुरस्कारा: प्रदास्यन्ते। विश्वविद्यालये चतुर्थे दिनांके भविष्यति संस्कृतशिक्षकसम्मेलनम्।सम्मेलने संस्कृतशिक्षकै: सह संस्कृतक्षेत्रे आगतानां विविध-समस्यानां निराकरणाय विचारविमर्श: भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button