संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

दूनविश्वविद्यालये संस्कृतसम्भाषणं” संस्कृतभारतीद्वारा

।देहरादूनं। संस्कृतभारतीदेहरादूनद्वारा संचालितस्य संस्कृतसप्ताहस्य पञ्चमे दिने देहरादूनस्य दूनविश्वविद्यालये संस्कृतसम्भाषणं” इत्यस्य कार्यक्रमस्य आयोजनं कृतम्। यस्मिन् गीतानि, कथाः, वार्तालापाः इत्यादयः विविधाः कार्यक्रमाः कृताः। कार्यक्रमे उपस्थिताः सर्वे वक्तारः स्वविचारं प्रस्तुतवन्तः।

कार्यक्रमे संस्कृतभारतीविभागस्य संयोजकः नागेन्द्रदत्तव्यासः अवदत् यत् यदि वयं संस्कृतं दैनन्दिनजीवने स्वीकुर्मः तर्हि अवश्यमेव एकस्मिन् दिने सफलाः भवेम। अपि च सहविभागस्य संयोजक: डॉ. नवीनजसोला उक्तवान् यत् सनातनसंस्कृतेः मूलग्रन्थान् ज्ञातुं संस्कृतभाषायाः अध्ययनम् आवश्यकम्। विश्वविद्यालयस्य अन्यविदेशीयभाषाविशेषज्ञाः अपि संस्कृतभाषायाः प्रति रुचिं प्रकटितवन्तः ।

विश्वविद्यालयस्य संस्कृतप्रवक्ता डॉ. राजेशशर्मा अवदत् यत् वयं देवभूमिं जीवामः इति गर्वः कर्तव्यः, अतः देवभाषां ज्ञातव्यम् इति अपि महत्त्वपूर्णम्। कार्यक्रमे संस्कृतभारतीदेहरादूनस्य महानगरमन्त्री आचार्यमाधवपौडेलः अवदत् यत् संस्कृतभाषा अस्माकं सभ्यता, अस्माकं संस्कृतिः तस्मिन् एव निहितः अस्ति, एषा एव अस्माकं परिचयः।

कार्यक्रमस्य संचालनं संस्कृतभारतीडोइवाला-खण्डसंयोजक: डॉ. आनन्दजोशी इत्यनेन कृतम् ।अवसरेस्मिन् संस्कृतभारत्या: रायपुरखण्डसंयोजक:, धीरजबिष्ट:, छात्रप्रमुख: शिवानी रमोला, अभिषेक:, करीना, खुशी आदय:, अनेककार्यकर्तार: तथा सामाजिकजना: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button