संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डपौड़ी

ज्वालपाधामसंस्कृतविद्यालये संस्कृतदिवस: उपनयनसंस्कारेण

पौड़ी। संस्कृतदिवसोपलक्ष्ये संपूर्णदेशे यत्र संस्कृतस्य प्रचार: प्रसार: चलति तत्र विविधकार्यक्रमा: अपि चलन्ति। उत्तराखण्डस्य संस्कृतविद्यालयेषु अपि अध्यापकै: सह छात्राणाम् संस्कारसमारोह: रक्षाबन्धनपर्वणि अभवत्। परम्परागतसंस्कृतसंरक्षणाय सततं प्रचलन् ज्वालपाधामसंस्कृतविद्यालय: स्वकीयाराधनायां संलग्नोस्ति ।

इत: बहव: छात्रा: विद्वांस: अनेकेषु क्षेत्रेषु संलग्ना: सन् संस्कृतविकासाय प्रयासरता: सन्ति। रक्षाबन्धनस्य शुभावसरे श्री ज्वाल्पाधामसंस्कृतविद्यालये पौडीगढ़वाले १९ छात्राणां यज्ञादिसमारोहे यज्ञोपवीतसंस्कारेण संस्कृतदिवस: आचरित: । अभवत् ।

अस्मिन् अवसरे महाविद्यालयस्य प्राचार्या डॉ. ममता मेहरा, श्री विकासधस्माना, वरिष्ठाध्यापकः राजेन्द्रप्रसाद:, श्री कालिकाप्रसाद: योगाचार्य: प्रदीपथपलियाल: (धर्मशिक्षक:)। पाचक: दीपकजोशी, सुमितडंडरियाल:, कान्ताथपलियाल: च सहैव अभिभावका: अपि उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button