उत्तराखण्डहरिद्वार

हरिद्वारे जागरूकतां जनयितुं संस्कृताय धावनम्

।।संस्कृतशिक्षासहायकनिदेशकः डा.वाजश्रवा आर्यः उक्तवान् यत् सामान्यजनानां मध्ये जागरूकतां जनयितुं प्रत्येकस्य आयुवर्गस्य संस्कृतप्रेमिणः हरिद्वारस्य वीथिषु संस्कृतार्थं धाविष्यन्ति। संस्कृतसप्ताहस्य अवसरे विविधप्रकाराणां कार्यक्रमाणाम् आयोजनं संस्कृतविद्यालयेषु महाविद्यालयेषु च भविष्यन्ति।।

हरिद्वारं। संस्कृतसप्ताहस्य समापनावसरे हरिद्वारस्य संस्कृतविद्यालयानां महाविद्यालयानाञ्च छात्राः संस्कृतधावने धाविष्यन्ति।
संस्कृतशिक्षाविभागस्य हरिद्वारस्य समापनावसरे प्रतिवर्षं संस्कृतसप्ताहे सितम्बरमासस्य तृतीये दिने ‘संस्कृताय धवनम्’ कार्यक्रमान्तर्गतं हरिद्वारस्य ऋषिकुलविद्यापीठब्रह्मचर्याश्रमतः सर्वेषां संस्कृतविद्यालया: महाविद्यालया: पञ्चशताधिकाः छात्राः चलिष्यन्ति महाविद्यालयत: हरकीपौडीं यावत् एषः प्रथमः कार्यक्रमः आयोजने विद्यते ।

संस्कृतशिक्षासहायकनिदेशकः डा.वाजश्रवा आर्यः उक्तवान् यत् सामान्यजनानां मध्ये जागरूकतां जनयितुं प्रत्येकस्य आयुवर्गस्य संस्कृतप्रेमिणः हरिद्वारस्य वीथिषु संस्कृतार्थं धाविष्यन्ति। संस्कृतसप्ताहस्य अवसरे विविधप्रकाराणां कार्यक्रमाणाम् आयोजनं संस्कृतविद्यालयेषु महाविद्यालयेषु च भविष्यन्ति। समापनावसरे सामूहिकताभावेन भारतरत्नपण्डितमदनमोहनमालवीयेन स्थापितेन ऋषिकुलविद्यापीठसंस्कृतमहाविद्यालयात् भारतरत्नपण्डितमदनमोहनमालवीयेन स्थापितं गंगासभाहरिद्वारपर्यन्तं छात्राः धाविष्यन्ति।

कार्यक्रमस्य आयोजकसमितेः सदस्यः डॉ. नवीन पन्तः अवदत् यत् समापनसमये हरिद्वारनगरस्य विधायकमदनकौशिकेन सह मुख्यातिथिरूपेण राज्यसंस्कृतशिक्षा तथा स्वास्थ्यमन्त्री डॉ. धनसिंह रावतः, संस्कृतशिक्षासम्बद्धाः विद्वांसः च गंगासभाया: पदाधिकारिण: उपस्थिता: भविष्यन्ति । कार्यक्रमस्य सफलतायै विभिन्ना: समितय: गठिता: सन्ति। संगोष्ठ्यां मुख्यतया डॉ. बलदेवप्रसादचमोली, डॉ. प्रकाशचन्द्रजोशी, डॉ. श्यामलालगौड:, डॉ. प्रेरणा गर्ग:, डॉ. कुलदीपपंत:, घनश्याम: उनियाल:, राकेशमधवाल:, गिरीशगोदियाल:, भास्करशर्मा आदय: उपस्थिता: आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button