संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारसंस्कृत भारती

कण्वनगर्यां विश्वसंस्कृतदिवसोपलक्ष्ये शोभायात्राया: अभवत् आयोजनम् । शोभायात्रायां गुञ्जितस्तोत्रेण दर्शका: मोहिता: अभवन्

आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा-'पंकजध्यानी' ।।संस्कृतं भारते एव न अपि तु विदेशे अपि भाष्यते- "कुलदीपमैन्दोला" ।। संस्कृतभाषा भारतस्य आत्मा-'मनमोहननौटियाल:' ।। संस्कृत भेदभावेन परिवारवत् एकत्रितं करोति -'सिद्धार्थनैथानी'

।उत्तराखण्डं। कण्वनगरी। रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त: . विद्यालयस्य मुख्याध्यापकस्य श्रीमनमोहननौटियालस्य निर्देशानुसारं सर्वे छात्राः, आश्रमवासिनः, अभिभावकाः च हवनं कृतवन्तः। संस्कृतदिवसस्य कार्यक्रमे छात्रैः श्रीमद्भागवद्गीता अन्त्याक्षरी, आशुभाषणं, श्लोक-पाठ: तथा नृत्यादिकं प्रस्तुतं । आचार्यमनमोहननौटियालः अस्मिन् अवसरे उक्तवान् यत् संस्कृतभाषा भारतस्य आत्मा अस्ति, भारतस्य प्रतिष्ठा केवलं संस्कृते एव वर्तते। संस्कृतं प्रति छात्राणां उत्कर्षः क्षीणः भवति, सः एकस्मिन् दिने चिन्तनीयः प्रश्नः अस्ति। वयं भारतीयाः सनातनीया: स्मः ये सर्वेषां हिताय प्रार्थयामः।

संस्कृतभारत्या: जनपदप्रचारक: आचार्यसिद्धार्थनैथानी इत्यनेन उक्तं यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” संस्कृतभाषा राष्ट्रस्य प्रगतेः कृते आवश्यकी अस्ति। अस्माकं पुराणोपनिषद: जीवनस्य पाठं शिक्षयन्ति यत् जीवनं कथं सार्थकं कर्तव्यम् इति। भवतु ‘वसुधैव कुटुम्बकम्’ इति उक्तिः वा ‘सह नाववतुः सह नौ भुनक्तुः’ इत्यादय: परम्पराः, अस्मान् एकस्मिन् सूत्रे विना किमपि भेदभावेन परिवारवत् एकत्रितं करोति ।

संस्कृतजिल्लासंयोजकः पंकजध्यानी अवदत् यत् संस्कृतभारती संस्कृतं पुनः वाच्यभाषां कर्तुं प्रवृत्ता अस्ति। १९८१ तमे वर्षे सम्पूर्णे विश्वे संस्कृतभाषायाः पुनरुत्थानाय एतस्या: संस्थायाः स्थापना कृता । संस्कृतं भारतस्य अतीव प्राचीनभाषा अस्ति किन्तु दुर्भाग्येन आधुनिककाले अस्याः उपेक्षा क्रियमाणा वर्तते। आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा अस्ति ।

* संस्कृतं भारते एव न अपि तु विदेशे अपि भाष्यते- “कुलदीपमैन्दोला” *

संस्कृतभारतीपौडी इत्यस्य सहसंयोजकः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः, वेदभाषायाः संस्कृतस्य च महत्त्वस्य विषये अवदत् यत् संस्कृतं न केवलं गुरुकुले अपितु समाजे अपि अस्ति । संस्कृतं भारते एव न अपि तु विदेशे अपि पठ्यते
अमेरिका, जर्मनी, फ्रान्स, वियतनाम इत्यादिषु विदेशेषु विद्यालयेषु अपि अस्य अध्यापनं प्रचलति।1983 तमे वर्षे आदिशङ्कराचार्येन संस्कृतभाषायां प्रथमं चलच्चित्रं निर्मितम्, येन अनेके राष्ट्रियपुरस्काराः प्राप्ताः।
भगवद्गीता, महाभारतं, रामायणं इत्यादीनि अनेकानि नामानि परिगणयितुं शक्यन्ते। अधुना अनेकेषु दूरदर्शनमालायां संस्कृतस्य स्थानं दीयते । केन्द्रीयसंस्कृतसंस्था यूट्यूब-फेसबुकादि-माध्यमेन लघु-चलच्चित्र-निर्माण-आदि-बहुभिः कार्यक्रमैः संस्कृतस्य प्रचारं कुर्वती अस्ति । संस्कृतं शिक्षितुं अद्यत्वे अस्माकं स्मार्त्जंगमवाण्यां प्लेस्टोर इत्यत्र ‘संस्कृतकल्पतरु:’, ‘संस्कृतसम्भाषणं’ इत्यादयः बहवः अनुप्रयोगाः वर्तन्ते।

कण्वनगर्यां कण्वाश्रमत: कलालघाटीपर्न्तं सायंकाले संस्कृतभारत्याः आश्रयेण कार्यकर्तारः गुरुकुलस्य छात्राः च नगरे संस्कृतस्य प्रचारार्थं संगोष्ठीम् आयोजयित्वा संस्कृतदिने शोभायात्राम् अकुर्वन्। शोभायात्रायां छात्राः – अभिमन्युः शिवाङ्गः च संस्कृतगीतानि गायन्ति स्म – मनसा सततं स्मरणीयं च सुरससुबोधविश्वमनोज्ञा, अङ्कुशपाण्डेयः भार्गवश्च शिवताण्डवं शिवपञ्चाक्षरस्तुतिं च गायन्ति स्म, सायंकाले भ्रमणं कुर्वन्तः जनाः अपि च परितः जनाः अपि गानम् सहैव आरब्धवन्तः ते।

आचार्य: नीरजहिन्दवानः जयतुसंस्कृतम् – जयतु भारतम्, जयतु – जयतु संस्कृतभाषा, प्रधानमंत्री मोदी वदति संस्कृतभाषा, राज्यसभायां संस्कृतभाषा इत्यनेन जयघोषेण संस्कृतदिवसस्य विषये जनान् अवगतं कारितवान् ।कण्वाश्रमतः प्राप्तस्य सभायाः पुनः कलालघाटीपर्यन्तं समाप्तिः अभवत्। शोभायात्रा अत्र दर्शनीया आसीत् । आचार्य: अरविन्दः शोभायात्राकार्यक्रमस्य फेसबुक् इत्यादिषु त्वरितप्रसारणं कृतवान् । प्रवक्ता रोशनबलूनीवर्य: स्वकीयवक्तव्ये समेभ्य: संस्कृतबान्धवेभ्य: शुभकामनाम् अयच्छत् । अवसरेस्मिन् आशीषनैथानी, राकेश:, कमलेश:, योगीराज:, हिमांशु:, विष्णु: आदय: छात्रा: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button