संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

आर्यावर्त-विद्वत्परिषदा संस्कृतदिवसोपलक्ष्ये संस्कृतविद्वांसः सम्मानिताः

।।संस्कृतप्रसाराय सर्वजनहिताय च संस्कृतेन सम्भाषणम् करणीयमेव -"डा.मूलचन्द्रशुक्ला"।। • ।। अनन्ताः ज्ञानराशयो वेदाः च वेदानां भाषा संस्कृतं विद्यते- "महामहोपाध्याय- डॉ. राममिश्रवर्य:"।।

।प्रयागराजः।श्रावणपूर्णिमायां श्रीमद्-आर्यावर्त-विद्वत्-परिषदः तत्त्वावधाने जगद्गुरु-रामानुजाचार्य- प्रयागपीठाधीश्वराणां स्वामी- श्रीधराचार्यमहाराजानां पावन- सान्निध्ये च वैकुण्ठ-धाम-आश्रम- अलोपीबाग-प्रयागराजे सभागारे संस्कृत-दिवस-समारोहः विद्वत्सम्माननं च समायोजितम्।कार्यक्रमस्य शुभारम्भो वैदिक- मङ्गलाचरणेन जातः।अस्मिन्नवसरे स्वामि-श्रीधराचार्यमहाराजैरुक्तं यत् संस्कृतं संस्काराणां भाषा वरीवर्ति। अस्याः निरन्तरमध्ययनेन जीवने उत्तमाः संस्काराः आयान्ति। अत्रैव समस्तं ज्ञान-विज्ञानं निहितं विद्यते। विद्वत्-परिषदः अध्यक्षेण महामहोपाध्याय- डॉ. राममिश्रेण अध्यक्षीयोद्बोधने प्रोक्तं यत् “अनन्ताः ज्ञानराशयो वेदाः च वेदानां भाषा संस्कृतं विद्यते। श्रावणपूर्णिमादिवसे जनाः श्रावणी-उपाकर्म कृत्वा शुध्दीभूय वेदाध्ययनारम्भं कुर्वन्ति।यतोहि वेदाः संस्कृतेन लिखिताः अत एव अद्यतन- दिवसः”संस्कृत-दिवस ” रूपेण मन्यते इति प्राक्परम्परास्ति। मिश्रमहोदयेन निगदितं यत् विशालस्य संस्कृतवाङ्मयस्याध्ययनार्थं अनेकजन्मानि आवश्यकानि। तेनोच्यते यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा “।
उक्ते समारोहे त्रिवेणी-संस्कृत- महाविद्यालयस्य पूर्व-प्राचार्य: डॉ. शम्भूनाथ त्रिपाठी ‘अंशुलः’, इलाहाबाद-विश्वविद्यालये संस्कृतविभागे सहायकाचार्यः डॉ. आशीषकुमारत्रिपाठी, पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालय- रामनगरे उत्तराखण्डे असि.प्रो.(संस्कृते) डॉ.मूलचन्द्र शुक्लः, राजकीय-महाविद्यालये पलिया-खीरी-लखीमपुरे संस्कृतविभागाध्यक्षः डॉ. सूर्यप्रकाशशुक्लः, प्रयागस्थः डॉ. राघवेन्द्र मोहन त्रिपाठी च एते कृतभूरिपरिश्रमाः विशिष्टसंस्कृतविद्वांसः श्रीफलेन पटुकया संस्कृतसम्मानपत्रेण च “उत्कृष्टसंस्कृतसेवा” इत्यनेन सम्मानेन सभाजिताः।

समारोहे सम्मानितविद्वद्भिः संस्कृतस्य वैशिष्ट्यै समाजोपयोगितार्थं ज्ञानविज्ञानवर्धनार्थं च संस्कृतेन सम्भाषणमावश्यकम् इत्यत्र स्वस्वविचाराः उक्ताः ।
तत्र शम्भूनाथत्रिपाठी मुख्यवक्तव्ये अवोचत् यत् संस्कृतस्य प्रचाराय सर्वदा संस्कृतभाषया वक्तव्यम्। डॉ. आशीष-त्रिपाठिना उक्तं यत् स्वगृहात् संस्कृतेन वक्तव्यमारभेत् । डॉ. मूलचन्द्रशुक्लेन निगदितं यत् प्रतिग्रामं प्रतिनगरं च संस्कृतप्रसाराय सर्वजनहिताय च संस्कृतेन सम्भाषणं करणीयमेव। कार्यक्रमसञ्चालकः पत्रकारः उमेशचन्द्रश्रीवास्तवः आसीत्। संगोष्ठ्यां विनयश्रीवास्तवः, दुर्गेशदुबे, प्रयागस्थाः सम्मान्याः सम्भ्रान्ताः विद्वांसो वैकुण्ठ- संस्कृतविद्यालयीयछात्राश्च समुपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button