आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालये अनन्तपुरे विश्वसंस्कृतदिवसः महता वैभवेन
केन्द्रीयसंस्कृतविश्वविद्यालयेन नवदेहल्याः अनौपचारिकसंस्कृतशिक्षणकेन्द्रेण समायोजित: दिवस:

आन्ध्रप्रदेशः।अनन्तपुरम्।केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली एवञ्च आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालयः, अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे विश्वसंस्कृतदिवससमारोहः समायोजितः।तत्रादौ दीपप्रज्ज्वलनपुरस्सरं शारदार्चनेन वैदिकमङ्गलाचरणेन अतिथिभिः कार्यक्रमस्य शुभारम्भो विहितः।
प्रास्ताविकोद्बोधने केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन संस्कृतदिवसस्य विषये अपि च संस्कृतस्य महत्त्वं प्रतिपादयन् प्रोक्तं यत् श्रावणपूर्णिमायां रक्षाबन्धनपर्वणि विश्वसंस्कृतदिवसः आभारते सोत्साहेन समाचर्यते। अधुना एतत् विश्वसंस्कृतदिनम् अथवा विश्वसंस्कृतदिवसः भारतसर्वकारः यूनेस्को संस्था च मिलित्वा विश्वे सर्वत्र आयोज्येते। विश्वेस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् संस्कृतसप्ताह आचर्यते। भारतस्य विभिन्नेषु स्थानेषु संस्कृतप्रेमिणः संस्कृतदिनम् अथवा संस्कृतसप्ताहः अत्युत्साहेन आचरन्ति। पाठशालासु, विश्वविद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य. संस्कृतदिवसस्य च विशिष्टम् आयोजनं भवति। नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानां गायनम् इत्यादयः प्रवृत्तयः आभारते भवन्ति।
*भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:*
श्रावणपूर्णिमा संस्कृतोत्सवस्य दिनम्। तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति। यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति। आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं वयं कुर्मः। संस्कृतं समाजव्यापि भवेत्। लोकव्यवहारे आगच्छेत्। तदर्थं सर्वैरपि संस्कृतं स्वीयनित्यजीवने आचरणीयम्।
तदनु भारतस्य प्रधानमन्त्रिणः मान्यस्य श्रीनरेन्द्रमोदी-वर्यस्य “मन की बात कार्यक्रमे सम्पूर्णदेशवासिभ्यः विश्वसंस्कृतदिवसमुपलक्ष्य प्रसारितस्य सन्देशोपि स्मार्टबोर्डमाध्यमेन सुश्रावितः।
कार्यक्रमस्य मुख्यातिथिः आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालयस्य मान्यः कुलपतिः प्रो० एस. ए. कोरी-महोदयः प्रोक्तवान् यत् विकासस्य मूलमन्त्रः संस्कृतं वर्तते। संस्कृतभाषा आधुनिकविज्ञानस्य आधारशिला अस्ति। संस्कृतभाषायाः विज्ञानेन तकनीक्या सह गहनः सम्बन्धः वर्तते। गुरुत्वाकर्षणस्य सिद्धान्तः न्यूटनेन न अपितु सहस्रवर्षेभ्यः प्राक् महर्षिणा कणादेन प्रदत्तमासीत्। मनोविज्ञानं,दर्शनं, गणितं, योगः, आयुर्वेदः, अर्थशास्त्रं, प्रबन्धनं, भूगोलविज्ञानं, पदार्थविज्ञानम् इत्यादिकं सर्वमपि ज्ञानविज्ञानमस्माकं ऋषयः वेैदिकसाहित्ये संस्कृतशास्त्रेषु च अनादिकालात् लोककल्याणार्थं प्रदत्तवन्तः। तेषु संस्कृतग्रन्थेषु विद्यमानस्य ज्ञानभण्डारस्य परिज्ञानाय सर्वैरपि संस्कृताध्ययनं करणीयम्।
*संस्कृतं केवलं भाषा न अपितु सम्पूर्णमपि जीवनदर्शनम्*
डॉ० शिल्पा श्रीः संस्कृतस्य विषये स्वविचारान् प्रस्तुतवती। तया उक्तं यत् अस्माकं भारतीयपरम्परायां महर्षिः पतञ्जलिः शारीरिकस्वास्थ्य कृते योगासनं, मानसिकस्वास्थ्य कृते च ध्यानं प्राणायामञ्च शिक्षितवान्। संस्कृतं केवलं भाषा न अपितु सम्पूर्णमपि जीवनदर्शनम्। श्रीमती प्रमिला महोदया भगवद्गीतायाः श्लोकद्वयमुक्त्वा तयोः भावार्थञ्च प्रकटितवती। राजनीतिविभागीयः छात्रः श्रीविजयः ध्येयमन्त्रमुक्त्वा तस्य भावं च बोधयन् कथितवान् यत् संस्कृतं व्यक्तित्वविकासाय महत्त्वपूर्णम्। डॉ० सुनीता कुमारी सर्वेषां धन्यवादज्ञापनं कृतवती। अन्ते च शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः सञ्जाता। कार्यक्रमस्य सफलतया सञ्चालनं केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन विहितम्।