संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देहलीहरियाणा

संस्कृतसम्भाषणेन सहैव यात्रायां पैनोरमासंग्रहालस्य दर्शनं छात्रै: कृतम्

प्राचार्यस्य प्रो.अमरजीतसिंहस्य कुशलमार्गदर्शने केंद्रीय-संस्कृत-विश्वविद्यालयदेहल्या: अनौपचारिक- संस्कृत-शिक्षण-केंद्र-द्वारा संचालितः 10 दिवसीय-संस्कृत-संभाषण-वर्ग: ।। संस्कृतस्य विज्ञानस्य च अभिन्नसम्बन्धस्य कारणात् कुरुक्षेत्रस्य पैनोरमाविज्ञानकेन्द्रस्य अपि भ्रमणं ।।

संस्कृतविभागस्य राजकीयमहिन्द्रमहाविद्यालयस्य प्राचार्यस्य प्रो.अमरजीतसिंहस्य कुशलमार्गदर्शने केंद्रीय-संस्कृत-विश्वविद्यालयदेहल्या: अनौपचारिक- संस्कृत-शिक्षण-केंद्र-द्वारा संचालितः 10 दिवसीय-संस्कृत-संभाषण-वर्ग:। महाविद्यालयस्य संस्कृतविभागसहिताः प्रमाणपत्रपाठ्यक्रमस्य अन्यविभागानाञ्च छात्राः सम्भाषणशिबिरे भागं गृहीतवन्तः। वक्तृभि: प्रोक्तमत्र यत् छात्राणां भारतीयसंस्कृतेः परिचयः करणीयः, तेषां भविष्यस्य सम्भावनाः मनसि धारयितुं च ब्रह्मसरोवरः, ज्योतिसरः (यत्र पुरुषोत्तमभगवता श्रीकृष्णेन अर्जुनाय गीतायाः ज्ञानं दत्तम् आसीत्), यो हि हरियाणायाः विश्वप्रसिद्धधरोहरेषु गण्यते, तत् दर्शितम् आसीत् । तेन सह कृष्णसङ्ग्रहालये भारतीयप्राचीनकलापरम्परा-सम्बद्धसामग्रीणां परिचयः छात्राणां कृते अभवत् ।
संस्कृतस्य विज्ञानस्य च अभिन्नसम्बन्धस्य कारणात् कुरुक्षेत्रस्य पैनोरमाविज्ञानकेन्द्रस्य अपि भ्रमणं छात्रै: कृतम् । छात्राः 3D शो, विज्ञानप्रदर्शनं, संग्रहालयदर्शनसहितं यात्रायां सम्यक् आनन्दिता: अभवत् च छात्राः अतीव उत्साहिताः अभवन्, अस्मिन् यात्रायां संस्कृतगीतानां श्लोकानां च पाठं कृत्वा भारतीयसंस्कृतेः ज्ञातुं विशेषरुचिं प्रकटितवन्तः। सर्वेषां छात्राणां सहचरशिक्षकाणां कृते स्थानस्य विषये बहवः महत्त्वपूर्णाः सूचनाः प्राप्ताः, तानि च स्वस्य टिप्पणीपुस्तकायाम् अपि अभिलेखितानि। संस्कृतविभागस्य प्रमुखा कन्वलजीतकौरः छात्रान् प्रेरयन्त्याः कथयति यत् भारतस्य संस्कृतिं सभ्यतां च सूक्ष्मदृष्ट्या ज्ञातव्यं ।
अस्याः प्रकृतेः संरक्षणं प्रति प्रतिबद्धः भूत्वा स्वजीवनं सद्गुणं कर्तव्यम् इति। यात्रायां हिन्दीविभागस्य अध्यक्षः कमलदीप: अरोड़ा, अनौपचारिकसंस्कृतशिक्षकः विनयसिंहराजपूतः सहैव आङ्ग्लविभागात् कमलदीपकौर:, गीता महोदया अन्यविभागेभ्यः छात्राः च भागं गृहीतवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button