देहली

परतन्त्रतायाः लेशमात्रमपि यदभिज्ञानं, तद्दूरीकरणं संस्कृतेन एव सम्भवति :- डॉ. सुशीलकुमारः

प्रबोधनवर्गस्य सप्तमे दिवसे वन्दनासत्रे श्रीमान् देवेन्द्रशर्मा दीपप्रबोधनं कृतवान्। बौद्धिकसत्रे संस्कृतभारती देहलीप्रान्तस्य सहप्रान्तमन्त्री डॉ. सुशीलकुमारः शिक्षार्थिनां कृते उद्बोधनं कृतवान्। महोदयेन संस्कृतसम्भाषणशीलानां परस्परं परिचयस्य सम्पर्कस्य च विषये उक्तम्। डॉ शर्मणा उक्तं यद् येन सह अस्माकं परिचयः भवति तस्य गुणानां सामर्थ्यस्य च अस्माकं ज्ञानं भवति। तेन एव अस्माकम् अपि सामर्थ्यं वर्धते। तेन वयं राष्ट्रदेवस्य आराधनं सेवनं च कर्तुं शक्नुमः। मुख्यतः सामर्थ्यानि पञ्चविधानि इति चिन्त्यते। जनधनज्ञानतपश्चरित्राणि इति सर्वेषामपि बलानां वर्धनं परिचयद्वारा भवति। अस्माकम् इतिहासे अनेके तादृशाः महापुरुषाः अभवन् येषां तपः कारणतः अस्माकं मनस्सु वयं भारतीयाः इति गर्वानुभूतिः भवति। संस्कृतभारती सङ्घटनरूपेण यदा विचारस्य आरम्भः जातः तदा चत्वारः छात्राः आरम्भं कृतवन्तः। सम्प्रति विश्वस्य अनेकेषु देशेषु सम्भाषणान्दोलनम् अनेन क्रियते। पूर्वस्माकं पूर्वजैः कष्टं सोढ्वापि परम्परा संरक्षिता इति महत्सौभाग्यम्। महोदयेन उक्तं यत् परतन्त्रताकाले अस्माकं निजभाषायाः हानिः या जाता, तस्याः पुनरुत्थानं कर्तुं युवानः युवत्यः कार्यकर्तारः सङ्कल्पं स्वीकुर्मः। यथा मन्दिरे नूतनपुष्पाणि एव अर्प्यन्ते तद्वदेव यूनां नेतृत्वद्वारा एतत्कार्यं सारल्येन भविष्यति। तेन कोटिशः भारतीयानाम् एवम् आत्मविश्वासः भवति यत् मम भाषा मम मुखे अस्ति इति । ध्यातव्यं यद् देहलीप्रान्ते प्रबोधनवर्गस्य आयोजनं प्रथमदिनाङ्कतः जायमानम् अस्ति सम्पूर्तिसत्रञ्च एतस्य श्वः भविष्यति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button