संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहलीसंस्कृत भारती

संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचारविभागाभ्यासवर्गः नवदेहल्यां

•मीडियासाधनै: प्रचार: अनुभव: च आवश्यक: - "श्रीशिरीषवर्य:" । • यूनामनुगुणं प्रचार: करणीय: -"प्रमोदसैनी"

• संस्कृतभारत्या: प्रान्तप्रचारका: प्रचारसन्दर्भे महत्त्वपूर्णांशान् ज्ञातवन्त:

।नवदेहली।महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचार- विभागाभ्यासवर्गः समारभत् । अधिकमासे श्रावणशुक्लैकादशी-द्वादशीतिथौ 28-07-23दिनांकत: 29-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: अत्र संजायते ।

श्रीगोपबन्धुमिश्रवर्य:- संस्कृतभारत्या: अखिलभारतीयाध्यक्ष:, श्रीशिरीशवर्य: अखिलभारतीयप्रचारप्रमुख: च
श्रीसत्यनारायणवर्य: अखिलभारतीयमहामन्त्री एवं
इण्डियन-इंस्टिट्यूट-आफ-मास-कम्युनिकेशन-महाविद्यालयस्य पत्रकारिताविभागस्य प्राध्यापक: श्रीप्रमोदसैनी दीपं प्रज्ज्वाल्य प्रचाराभ्यासवर्गस्य शुभारम्भं कृतवन्त: ।

।नवदेहली।महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचार- विभागाभ्यासवर्गः समारभत् । अधिकमासे श्रावणशुक्लैकादशी-द्वादशीतिथौ 28-07-23दिनांकत: 29-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: अत्र संजायते । श्रीगोपबन्धुमिश्रवर्य:- संस्कृतभारत्या: अखिलभारतीयाध्यक्ष:, श्रीशिरीशवर्य: अखिलभारतीयप्रचारप्रमुख: च
श्रीसत्यनारायणवर्य: अखिलभारतीयमहामन्त्री एवं
इण्डियन-इंस्टिट्यूट-आफ-मास-कम्युनिकेशन-महाविद्यालयस्य पत्रकारिताविभागस्य प्राध्यापक: श्रीप्रमोदसैनी दीपं प्रज्ज्वाल्य प्रचाराभ्यासवर्गस्य शुभारम्भं कृतवन्त: ।

अवसरेस्मिन् प्रास्ताविकमुपस्थापयन् शिरीशवर्य: उक्तवान् यत् – प्रचारविभागस्यचिन्तनम् अपि करणीय: मीडियासाधनै: प्रचार: च तत्र अनुभव: आवश्यक: तथा च अग्रिमयोजना करणीया तथा च प्रचारसंगठनरचना अपि अस्माभि: विधातव्या ।

प्रचारविषये मार्गदर्शनं कुर्वन् प्रमोदसैनीमहोदय: प्रोक्तवान् यत् प्रचार: कस्य कथम् इति लक्ष्यं स्वीकृत्य एव प्रचारं वयं कर्तुं शक्नुम: । 1925तमे वर्षे संघस्थापना अभवच्च तत्रापि 1947तमे वर्षेपि प्रचारस्य आवश्यकता अभवत् अत: पांचजन्यमाध्यमेन प्रचार: प्रारभत् । 1990तमे वर्षे समये प्रचार: आरब्ध: । तदा अपि अस्माकं संघविरुद्धे 1950-52त: दुष्प्रचार: समारब्ध: । अत: यत्र विमर्श: प्रचलति तत्र प्रचार: आवश्यक: । मार्क्सजना: सर्वत्र सन्ति तेषां सम्मेलने पठने शिक्षणे सुनियोजितप्रचार: जायते । अत: वयं
मीडियास्वरूपे वार्ताहराणाम् एव न अपितु मीडियास्तम्भकाराणां सम्पादकानां वार्ताविमर्शं कुर्म: ।

तै: कथितं यत् दर्शकेषु अस्माकं प्राप्ति: स्यात् न तु केवलं प्रिंटमीडियारूपेण भवितव्यं 31मार्च2023पर्यन्तं एकलक्ष40सहस्रसमाचारपत्राणि च 900प्रसारणवाहिन्य: 400समाचारवाहिन्य: च सन्ति । अस्माकंपक्षत: समाचारप्रकाशनम् अधिकाधिकं कुत्रापि करणीयम् एव । आकाशवाणिषु 386एफ एम इति सन्ति च 113नगरेषु 448आकाशवाणीसंचार: च 530सामुदायिकरूपेण समाविशन्त्यपि । ओटीटी इति50 सन्ति । यूट्यूब् इत्यत्र 1कोटिदर्शका: , ट्विटर् इत्यत्र300कोटि, इंस्टाग्राम् इत्यत्र 25कोटि फेसबुक् इत्यत्र 32कोटिदर्शका: सन्ति।

श्रीसैनीउक्तवान् यत् यूनामनुगुणं प्रचार: करणीय: । प्रचारे वयं यूनां योजयाम: च तेषामनुगुणं च व्यावसायिकरूपेण सामान्यजनानुकूलं प्रचार: भवेत् । तदा लाइक शेयर इत्यादिकं सफलं भवति । मीडियासन्दर्भे भूमिकां चिन्तयाम: । मीडियाक्षेत्रे एक: एव सर्वभूमिकायां भवति तथैव संस्कृतप्रचारे अपि भवतु । वयं कार्यप्रणालीं जानीम: । समाचारलेखनस्य अभ्यास: आवश्यक: च शिक्षणस्य आवश्यकता वर्तते। समाचारवार्ताहरेषु वयं सम्पर्कं कृत्वा संस्कृतसूचीं कुर्म: तत्र संस्कृति+शिक्षा-तकनीकी-आदिविभागेषु सम्पर्कं कुर्म: । पत्रकारेषु सर्वं गुणानुकूलम् एव वक्तव्यं । वार्ता कदापि समयपूर्वम् एव प्रेषणीयं । पूर्वम् एव निर्धारणम् कुर्म: किं प्रेषयाम: । वयं “न्यूजएजेन्सी’द्वारा सर्वत्र गन्तुं शक्नुम: । विदेशमन्त्रालयेषु अपि संस्कृतसम्बन्धिन: भवन्ति तत्रापि सम्पर्कं साधयाम: । चलचित्रं निर्मीय प्रचार: आवश्यक:। सन्दर्भसामग्री अस्ति चेत् सर्वत्र गच्छेत् शोधरुपेण अपि समाचारेषु अपि प्रचार: करणीय: । छायाचित्रादिकं स्पष्टं भवेत् । समाचारसम्पादकै: सह सम्पर्क: च मीडिया अर्थात् भारतभाषाविद्भि: सह सम्पर्क: । एकवर्षस्य पंचांगचयनं करणीयं । आलोचकानां विरोधं न कुर्म: । संस्कृते : तिरस्कार: न परिष्कार: करणीय: । नवलेखकानां संयोजनम् भवेत् । वर्षे मेलनम् अवश्यं करणीयं। विषयलेखने अपेक्षाद्वयं 1-तात्कालिकविषय: 2- दीर्घकालिकविषय: भवितव्यं च शब्दावलीचयनम् अपि आवश्यकं वर्तते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button