उत्तराखण्डसंस्कृत भारतीहरिद्वार

सम्भाषणेन संस्कृतं सामान्यजना: अपि वक्तुं शक्नुवन्ति—“प्राचार्य: बीकेसिंह:”

प्रेषक:-ज्योतिप्रकाश:।हरिद्वारम्।राष्ट्रियसंस्कृतसंस्थानकेन्द्रीयविश्वविद्यालयसम्बद्धे हरिद्वारस्थपरिसरे भगवानदास-आदर्श-संस्कृत-महाविद्यालये १० दिवसीयः सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनं जातम्, यस्मिन् ९० छात्राः प्रतिभागं कुर्वन्ति, यत्र बालका: १० दिवसं यावत् सरलतया संस्कृतं वक्तुं शिक्षिताः भवन्ति। महाविद्यालयस्य शिविरशिक्षिकौ श्रीज्योतिप्रकाशः कुमारी सलोनीजी च स्त: । प्राचार्यः बीकेसिंहदेव: अवसरेस्मिन् सम्बोधितवान् यत् महाविद्यालये संस्कृतभारतीद्वारा १० दिवसीयः संस्कृतभाषणशिबिरस्य आयोजनं क्रियते। बालकानां कृते संस्कृतसम्भाषणस्य एषः उत्तमः अवसरः अस्ति। संस्कृतं सर्वभाषाणां जननी अस्ति, सर्वा: भाषाः तस्मात् उत्पन्नाः अत: सर्वै: प्रयत्नः करणीयः यत् वयं सर्वे यथाशक्ति: संस्कृतं वदामः।सः एवम् अवदत् अत्र अस्माकं विद्यालये १० दिवसीयशिबिरस्य आयोजनं कृत्वा वयं सर्वे प्रयत्नशीलाः स्मः यत् छात्राः तस्मात् बहु लाभं प्राप्नुयुः अस्य शिबिरस्य अनन्तरं ते केवलं संस्कृतभाषायां वक्तुं शक्नुवन्ति। सम्भाषणेन संस्कृतं सामान्यजना: अपि वक्तुं शक्नुवन्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button