देश

*महामनामालवीयजयन्त्यवसरे “विमलकीर्ति महामना” इति पुस्तकस्य लोकार्पणम्*

*महामनापरिवार-झारखण्डस्य तत्त्वावधानेन पी.के. रॉय मेमोरियल महाविद्यालयस्य प्राङ्गणे भारतरत्न-महामना-पण्डित-मदनमोहन-मालवीय-महोदयस्य १६४-तमी जयन्ती ‘पुरातनच्छात्र-समागमः’ च अत्यन्तं सोल्लासं सोत्साहं च समायोजितः।*

वार्ताप्रेषकः- डॉ.मूलचन्द्रशुक्लः। धनबादम् /झारखण्डम्।
कार्यक्रमस्य शुभारम्भः अतिथिभिः सरस्वत्याः दीपप्रज्वालनेन,माल्यार्पणेन च जातः।विद्यार्थिभिः मङ्गलाचरणेन स्वागतगानेन काशीहिन्दुविश्वविद्यालयस्य सुललितकुलगीतगानेन च वातावरणं मन्त्रमुग्धं विहितम्।सर्वप्रथमम् अतिथीनां वचसा स्वागतपुरस्सरं कार्यक्रमसंयोजकेन डॉ. विमलेन्दुकुमारत्रिपाठिना भारतरत्न-महामना-पण्डित-मदनमोहनमालवीयजयन्ती,पुरातनच्छात्रसङ्गमश्चेत्युभयोः सम्बन्धे प्रास्ताविकी पुरस्कृता।अस्मिन्नवसरे मुख्यातिथिः डॉ. रामकुमार सिंहः (कुलपतिः, वि.वि.म.को. वि.वि.) मञ्चासीनाः आसन्।स्वकीयसम्बोधने तेनोक्तं यत् मालवीयजी महोदयानां शुचिता-चरित्र-ज्ञानस्य महत्त्वमित्यस्य तत्कालीन-पारतन्त्र्य-काले शिक्षायाः अनिवार्यतायाश्च विषये तस्य दूरदर्शिता विशेषतः प्रदर्शिता।तेन काशी-हिन्दू-विश्वविद्यालयस्य निर्माणे मालवीयस्य ‘भागीरथ-प्रयत्नस्य’ अपि चर्चा कृता।

​विशिष्टातिथिरूपेण विनोबा-भावे-विश्वविद्यालयस्य (हजारीबाग) जन्तुविज्ञान-विभागाध्यक्षः उपस्थितः आसीत्।तेन छात्रान् प्रोत्सह्य मालवीयस्य संयम-ब्रह्मचर्ययोः सन्देशः विश्वे प्रसारयितुं आह्वानं पुरस्कृतम्।अपरः विशिष्टातिथिः प्रो. मृत्युञ्जयकुमार सिंहः पदस्य अहङ्कारं त्यक्त्वा मालवीयस्य उदात्तशिक्षाणाम् अनुसरणाय बलं दत्तवान्। सारस्वतातिथिः रामगढ़-महाविद्यालयस्य प्राचार्या डॉ. रत्ना पाण्डेया मालवीयस्य आदर्शान् पाल्यमानानां गुरूणां संस्मरणानि श्रावितवती।कार्यक्रमस्य सञ्चालकः डॉ. शशिकान्त तिवारी ‘शशिधरः’ मालवीयस्य जीवनेन प्रेरितान् अनेकान् प्रसङ्गान् वर्णितवान्।


कार्यक्रमस्य संरक्षकेण राष्ट्रपत्यादिविविधसम्मानसभाजितेन प्रो. कृष्णकान्तशर्ममहोदयेन प्रोक्तं यत् मानवः स्वकीय-आचरणेनैव आदर्शान् संस्थापयेत्।यदा तेषां स्वास्थ्यं दृष्ट्वा उपविश्य वक्तुं निवेदितम्,तदा तैरुक्तं यत्— “यावत् शक्तिः वर्ते,तावदुत्थायैव वक्तव्यम्।” अग्रे तेनोक्तं यत् विश्वविद्यालयस्य अर्धचन्द्राकारस्य प्रतीके ‘स्थायित्वम्’ दरीदृश्यते।

​ग्रन्थ-विमोचनम् –

अस्मिन्नवसरे डॉ. विमलेन्दुकुमार त्रिपाठिमहोदयेन सम्पादितस्य ‘विमलकीर्ति महामना’ इत्याख्यस्य पुस्तकस्य लोकार्पणं विद्वद्भिः विहितम्।महामनापण्डित-मदनमोहन मालवीयविषयका: विदुषां चतुर्विंशतिर्लेखा: अत्र पुरस्कृतास्सन्ति।अस्य सम्पादनं महामना-परिवार-झारखण्डस्य संयोजकेन डॉ. विमलेन्दुकुमार- त्रिपाठिना कृतम्।प्रकाशनञ्च प्रत्नकीर्ति- प्राच्य- शोध- संस्थानेन वाराणसीस्थेन जातम्।
​सांस्कृतिक-सन्ध्या:द्वितीयसत्रे मालवीयसम्बन्धिभजन-सन्ध्यायाः आयोजनं कृतम्,यत्र कनकझा आनन्दचौबे च सुललितगायनं कृतवन्तौ।मयङ्ककुमारः भक्तः तबला-वाद्येन सङ्गतिं कृतवान्। राम-अचलयादवः अस्य सत्रस्य सञ्चालनं कृतवान्।

​आयोजन-समित्या कार्तज्ञ्यम् अस्य भव्य-आयोजनस्य संयोजकेन डॉ. विमलेन्दु कुमार त्रिपाठिना विहितम्,कोषाध्यक्षः मिथिलेश कुमारः,सहसंयोजकौ भुवन भास्कर-डॉ. शम्भू तिवारी च आसन्। आयोजनसमित्यां डॉ. सञ्जय सिंहः, मृत्युञ्जय मिश्रः इत्यादयः प्रमुखाः सदस्याः सक्रियाः आसन्। ​प्रथमसत्रस्य धन्यवाद-ज्ञापनं बालेन्दुशेखरत्रिपाठिना (गिरिडीह महाविद्यालयः) कृतम्, द्वितीयसत्रस्य च मृत्युञ्जयमिश्र- महोदयेन विहितम्।
न केवलं झारखण्डात् अपितु विविधप्रान्तेभ्यः महामनापरिवाराच्च विद्वांसः कार्यकर्तारश्च समुपस्थिताः आसन् यथा-डॉ. सञ्जय कुमार चौबे, डॉ. सत्येन्द्र पाण्डेय,डॉ. कौशलेन्द्र त्रिपाठी,डॉ. मनीष चन्द्र पाण्डेय,हृदयानन्द द्विवेदी, रजनी कान्त उपाध्याय, डॉ.चन्द्रमौलीश्वर पाण्डेय,डॉ. चिन्तामणि त्रिपाठी, डॉ. आशीष कुमार रायः,डॉ पारङ्गतखल्खो,डॉ. दीपककुमारसिंहः,डॉ. द्रविड़,डॉ. शशिकान्तपाण्डेयः,डॉ.पायलवर्मा, डॉ. सुनीताकुमारी,डॉ. विनीता तिर्की,राकेश पाठकः,डॉ. शनिकुमारचौबे,राजीव मिश्रः प्रभृतयः नैके जना: ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button