श्रीबद्रीनाथराजकीयसंस्कृतमहाविद्यालयस्य (नवटिहरी) इति निरीक्षणं सचिवमहाशयेन सम्पन्नम्
संस्कृतशिक्षार्थिनां कृते प्रतिदिनम् एकघण्टापर्यन्तं संस्कृतसम्भाषणशिविरस्य आयोजनं करणीयम्

दिनाङ्के २८-१२-२०२५ तमे श्रीदीपककुमारगैरोला महोदयेन, उत्तराखण्डशासनस्य संस्कृतशिक्षा-जनगणना-कार्यक्रमक्रियान्वयनविभागस्य सचिवेन, श्रीबद्रीनाथराजकीयसंस्कृतमहाविद्यालयस्य नवटिहरीस्थस्य औपचारिकं निरीक्षणं कृतम्। महाविद्यालये आगमनसमये प्राचार्येण, सहायकनिदेशकेन, अध्यापकवर्गेण तथा छात्रैः वेदमन्त्रघोषैः सह अतिभव्यः स्वागतसमारोहः आयोजितः।

ततः सचिवमहाशयेन दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भः कृतः। अस्मिन् अवसरें छात्रैः स्वस्तिवाचनम्, गीतापाठः, संस्कृतसमूहगानं च सुन्दररीत्या प्रस्तुतम्। कार्यक्रमे प्राचार्यमहोदयेन सर्वेषां अतिथीनां हार्दिकं स्वागतं कृत्वा महाविद्यालयस्य शैक्षणिकी रूपरेखा, वर्तमानस्थितिः तथा भविष्ये सम्भावनाः विस्तारतः निरूपिताः।

अनन्तरं सचिवमहाशयेन छात्र-छात्राभिः सह प्रत्यक्षसंवादः स्थापिता। संवादकाले तेषां परिचयः, सामान्यज्ञानम्, विविधधर्मग्रन्थानां अध्ययनस्य महत्त्वं च विशेषतया प्रतिपादितम्। सचिवमहाशयः अवदत् यत् संस्कृतभाषा केवलं शास्त्रीयविद्या न, अपि तु सर्वधर्मग्रन्थानां अध्ययनस्य सशक्तं माध्यमम् अस्ति।
ततः सचिवमहाशयेन प्राचार्यं प्रति निर्देशः दत्तः यत् महाविद्यालयस्य सम्पूर्णा यथास्थितिः, शैक्षणिक-प्रशासनिकावस्थाः, आधारभूतसमस्याः तथा सम्भाव्यविकासकार्याणि लिखितरूपेण विस्तृततया प्रस्तुयन्ताम्, येन भविष्ये उचिताः निर्णयाः कर्तुं शक्यन्ते।
एवञ्च सचिवमहाशयेन निर्देशितं यत् महाविद्यालयसमये अनन्तरं समीपवर्तिनां संस्कृतानुरागिणां तथा संस्कृतशिक्षार्थिनां कृते प्रतिदिनम् एकघण्टापर्यन्तं संस्कृतसम्भाषणशिविरस्य आयोजनं करणीयम्। अपि च छात्रावासस्थबालकानां भोजनव्यवस्थायाः सुदृढीकरणाय सम्भावनाः अन्वेष्टुं तथा आवश्यकप्रयत्नाः कर्तुं स्वीकृतिः आश्वासनं च दत्तम्।
अन्ते कार्यक्रमः सौहार्दपूर्णवातावरणे सफलतया सम्पन्नः, यत्र सचिवमहाशयस्य निरीक्षणेन महाविद्यालयस्य शैक्षणिकविकासे नूतनाः सम्भावनाः उद्घाटिताः इति सर्वैः अनुभूतम्।







