देश

⚽🥎🏑🏋🏻⛹🏻‍♀️ “पेरिस-ओलंपिक” इति क्रीडामहाकुम्भस्य प्रतीपगणना प्रारब्धा ,

"पेरिसक्रीडामहाकुम्भसंक्षिप्तिका" 👉🏻पेरिस सनर ओलंपिक इति ग्रीष्मकालिक क्रीडामहाकुम्भस्य आयोजनं ऐषम: जुलाई 26 त: 11 अगस्त एकादशीं यावत् । 👉🏻अस्मिन् आहत्य 329 प्रतियोगिता: सन्ति , 👉🏻 अत्र हि 184 देशानां 10,500 मितप्राया: क्रीडका: भागं भजन्ते। 👉🏻ब्रेकडांसिंग इति क्रीडा ऐदम्प्राथम्येन समावेक्ष्यते। 👉🏻 भवन्तः पीकॉक इति माध्यमे तत्रत्यानां क्रीडानां लाइव स्ट्रीमिंग इति प्रत्यक्षप्रसारणं भविष्यति। 💦 जुलाई षड्विंश्यां समस्तस्य विश्वस्य निशितदृष्टि: भविष्यति फ्रांसदेशे, 329 खेलप्रकल्पेषु प्रतिभागं भजिष्यन्ति दश सहस्राधिका: क्रीडका: ।

💦वार्ताहर:-युवराज:💦। 🟡 खेलानां महाकुम्भस्य ओलम्पिक इत्यस्य प्रारम्भे अधुना नैवाधिक: समय: समवशिष्यते। ऐषम: क्रीडामहाकुम्भानुष्ठानस्य यजमानत्वस्य अधिकार: पेरिसनगरेण प्राप्तम् अस्ति। विगते वर्षे टोक्यो नगरेण ओलम्पिक क्रीडाअनुष्ठानस्य यजमानत्वं निर्व्यूढम् आसीत्। “पेरिस समर ओलम्पिक” इत्यस्य अनुष्ठानस्य समारम्भः जुलाई षड्विंशी-त: एव भविष्यति। एतासु क्रीडासु आहत्य क्रीडानां 329 परिमिता: क्रीडाप्रकल्पा: भविष्यन्ति 10000 त: अपि अधिका: क्रीडका: भागं भजिष्यन्ति। “ब्रेकडांस” इत्याख्यः प्रकल्प: नूतनतम: प्रकल्प: वर्तते यद्धि विगते वर्षे एव समाविष्ट: अस्ति। संहत्य 184 मितानां देशानां “एथलीट” क्रीडका: एतेषु खेलेषु सहभागं करिष्यन्ति, एषा संख्या कथमपि न्यूनतमा संख्या नैव कथयितुं शक्यते। यत्र हि स्वर्ण-पदकीय-स्पर्धानां वार्ता अस्ति, तर्हि तासां संख्या 329 मिता विद्यते। 32 मितेषु खेलेषु एतावन्त: प्रकल्पा: समयोक्ष्यन्ते। एतेषु स्वर्णपदकम् अतिरिच्य रजत-कांस्य पदकानि अपि भविष्यन्ति▪️

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button