संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डदेशदेहली

अन्ताराष्ट्रियमातृभाषा-दिवसमुपलक्ष्य सत्यवती- महाविद्यालये समनुष्ठिता सप्तभाषीया कविगोष्ठी

साहित्यमेव आदर्शसमाजस्य आधारशिला वर्तते "सच्चिदानन्दजोशीवर्य: "

नवदिल्ली। सत्यवतीमहाविद्यालयस्य मैथिलीभोजपुरी-अकादम्याश्च संयुक्ततत्त्वावधाने अन्ताराष्ट्रियमातृभाषादिवसमुपलक्ष्य 22-02-2024 दिनाङ्के महाविद्यालयस्य सभागारे एका विशाला सप्तभाषीया कविगोष्ठी छात्राभिप्रेरण-कार्यक्रमश्च आयोजितोभवत्, यत्र सप्तभाषाणां कविभि: निजरचनापाठद्वारा श्रोतारो मन्त्रमुग्धीकृता: । कार्यक्रमेSस्मिन् मुख्यातिथित्वेन उपस्थित: इन्दिरगान्धिराष्ट्रियकलाकेन्द्रस्य सदस्यसचिव: प्रसिद्ध: मनीषी सच्चिदानन्दजोशीवर्य: “राष्ट्रनिर्माणे नूतनशिक्षानीतौ च मातृभाषाणां महत्ता” इत्यस्मिन् विषये नैजं ज्ञानगम्भीरं व्याख्यानं प्रास्तौत्। अनेन प्रोदितं यत् साहित्यमेव आदर्शसमाजस्य आधारशिला वर्तते। विशिष्टातिथित्वेन वक्तृत्वेन चोपस्थिता दिल्लीहिन्दीसाहित्यसम्मेलनस्य अध्यक्षा, आध्यात्मग्रन्थलेखिका च श्रीमती इन्दिरा मोहनवर्या विविधैः उदाहरणै: जीवने स्वस्य विकासाय मातृभाषाया: महत्वं प्रत्यपादयत्।

सत्यवतीमहाविद्यालयस्य अध्यक्ष: प्रख्यात: संस्कृतविद्वान् आचार्य: दयाशङ्करतिवारी अपि स्वागत-भाषणपुरस्सरं सर्वान् छात्रान् अधिकाधिकं सम्भाषणसमये मातृभाषाप्रयोगार्थं प्रैरयत्। अस्मिन् अवसरे हिन्दीभाषीय: कवि: प्रोफेसर् हरीश: अरोडा हिन्द्यां कवितां प्रस्तूय सर्वान् व्यमोहयत्। समवाप्तसाहित्याकादेमीयुवपुरस्कार: संस्कृतकवि: डॉ. युवराज: भट्टराई भक्तिपरां, समसामयिकीं, शृङ्गारविषयिणीं च कवितात्रयीं प्रस्तूय सर्वान् श्रोतृजनान् विमुग्धीकृतवान्। वरिष्ठा कवयित्री, बहुभाषाकोविदा, हिन्दीमराठीभाषायो: परमविदुषी च डॉ. कीर्तिकालेवर्या मराठी-भाषायां हिन्दीभाषायां राजस्थानीभाषायां च निजरचना: प्रस्तुतवती। कवि: दिनेशशर्मा हरियाणवीभाषायां मातृभाषाया: महत्त्वं सुन्दररीत्या चित्रितवान्। पञ्जाबीभाषाया: कवयित्री जसविन्दरकौरबिन्द्रा महोदया मार्मिकीं कवितां श्रावितवती। लोकप्रिय: भोजपुरीभाषीय: कवि: विनयकुमारशुक्ल: “विनम्र:” निजकविताभि: सर्वान् उपस्थितान् जनान् विमोहितवान्। मैथिलीकवियित्री आभाझा महोदया शृङ्गारकवितां प्रस्तूय श्रोतृजनानां भूरिप्रशंसा: समार्जयत् ।
कार्यक्रमस्य सफलसञ्चालनं सत्यवतीमहाविद्यालयस्य हिन्दीविषयस्य प्राध्यापिका प्रोफेसर् रचना विमलवर्या समभालयत्। कार्यक्रमस्य अध्यक्षता महाविद्यालयस्यैव प्राचार्यया प्रो. अञ्जूसेठमहोदयया विहिता। अस्मिन् अवसरे कविभ्य: अङ्गवस्त्रं प्रदाय सम्माननम् अपि कृतम्। अस्मिन् कार्यक्रमे महाविद्यालयस्य पारेशतं विद्यार्थिन: उपस्थिता: अवर्तन्त।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button