संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डलखनऊ

संस्कृतं मानवजीवने सङ्गणकवत् उपयुक्तम् -“आचार्य: कुशलदेव:”

वार्ताहर: – सचिनशर्मा , मोदीनगरम् , गाजियाबाद:, उ.प्र. ।
उत्तरप्रदेशसर्वकारस्य भाषाविभागाधीनेन उत्तरप्रदेश-संस्कृतसंस्थानेन सञ्चालितानाम् अन्तर्जालीयसंस्कृतशिक्षणवर्गाणाम् अन्तर्गतं अस्मिन् मासे बौद्धिकसत्रस्य आयोजनं कृतम्। अस्मिन् मुख्यवक्तृरूपेण गुरुकुलमहाविद्यालयस्य ततारपुरस्य हापुडस्य संस्कृत-प्रवक्ता उत्तरप्रदेशमाध्यमिकसंस्कृतशिक्षापरिषल्लखनो इत्यस्य पाठ्यक्रमसमित्याः सदस्यः च आचार्यकुशलदेवः उक्तवान् यत् अद्य संस्कृतं मानवजीवने सङ्गणकवत् उपयुक्तम् अस्ति। यथा सङ्गणके CPU-प्रधानः संसाधन: विभागः भवति, यथैव सर्वा: स्मृतयः तस्मिन् संगृह्यन्ते, तथैव संस्कृत-अध्येतृणां सङ्गणकवत् अपारस्मृतिशक्तिः भवति । यथैव कुञ्चिकापटलं( कीबोर्डं) विना सङ्गणके किमपि कार्यं न सम्भवति, तथैव संस्कृतग्रन्थै: शास्त्रै: च विना मानवविकासः न भवति । यथा मूषकः(माउस) स्नेहेन संचालितः भवति, तथैव यदा गुरुहस्तः शिष्यस्य शिरसि तिष्ठति , तदा संस्कृते उपलभ्यमानं सर्वं ज्ञानं सहजतया लभ्यते। यू.पी.एस. अर्थात् अबाधितविद्युत्प्रदा इव संस्कृते दिव्यस्य अध्यात्मस्य च तत्त्वानि सूर्यवत् अस्मान् निरन्तरम् ऊर्जां प्रदास्यन्ति एव। अस्माकं जीवने संस्कृतस्य विकासस्य महत्त्वं वर्तते। यथा भण्डारणकार्यं पुटे वा सञ्चिकायां वा क्रियते, तथैव संस्कृतस्य ज्ञानं सर्वशास्त्रं च अस्माकं जीवनसञ्चिकायां संगृहीतुम् आवश्यकम्। संस्कृतछात्राणां नियोगाय अध्यापनक्षेत्रे कार्यम् अस्ति । उत्तरप्रदेशसंस्कृतसंस्थानद्वारा प्रतियोगिताः कारयित्वा पुरस्कारवितरणसमारोहः भवति। संस्कृतविदुषाम् उत्साह-प्रवर्धनार्थं संस्कृतस्य सम्यक् प्रचारार्थं च संस्कृतसाहित्यस्य, काव्यस्य, विविधशास्त्राणां च कृते विविधाः पुरस्काराः प्रदत्ताः भवन्ति। अस्माभिः मातृभक्त्या संस्कृतभाषायाः अध्ययनं करणीयम्। अस्माभिः पाश्चात्यसंस्कृतेः पृष्ठतः न धावितव्यम् अपितु संस्कृतिविकासं कृत्वा अस्माकं भारतीयधरोहरस्य रक्षणं करणीयम्।
कार्यक्रमस्य आरम्भः निखिलशर्मण: मंगलाचरणेन कविताग्रवालस्य सरस्वतीवंदनाद्वारा अभूत् । कविताग्रवालद्वारा संस्थानगीतिका प्रस्तुता। आराधनारावतद्वारा अतिथिनां परिचयः स्वागतं च अभवत् । अनुभवकथनं स्मृतिगुप्ता, आदित्यरावत:, डॉ. राघवेन्द्रमिश्र:, मुकेशलोधी, निशा पाण्डेया डॉ. भागीरथी मिश्र: च उक्तवन्त: । निशा मीना सुमधुरं संस्कृतगीतं प्रस्तुतवती। कुशलतया मञ्चप्रबन्धनं सञ्चालनं च संस्थानप्रशिक्षक: सचिनशर्मणा एवं च तकनीकीसहयोग: ओमदत्तद्विवेदीद्वारा कृत:। संस्थानस्य प्रशिक्षक: डॉ०सत्यप्रकाशमिश्र: समागतानां सर्वेषाम् आभारं धन्यवादं च ज्ञापितवान् । अन्ते प्रदीपतिवारीद्वारा शांतिमन्त्रस्य पाठ: कृत:।
अवसरेऽस्मिन् संस्थानस्य निदेशक: श्रीविनयश्रीवास्तव:, प्रशासनिकाधिकारिण: श्री दिनेशमिश्र:, जगदानंदझा, योजना सर्वेक्षिका डॉ० चन्द्रकला शाक्या, प्रशिक्षणप्रमुख: श्रीसुधिष्ठमिश्र:, प्रशिक्षणसमन्वयका: श्रीधीरजमैठाणी, श्रीदिव्यरञ्जन: , सुश्री राधाशर्मा च, सर्वे प्रशिक्षार्थिन:, प्रशिक्षकाः अन्ये च सामाजिकसंस्कृतानुरागिजनाः अन्तर्जालद्वारा उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button