संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहलीविदेशसंस्कृत भारती

अखिलभारतप्रचारविभागाभ्यासवर्गस्य अभवत् सम्पूर्तिकार्यक्रम:

समयेस्मिन् विचारसंघर्ष: च मानवमननियन्त्रणोपाय: प्रचलति- "ऊमेश-उपाध्याय: " ।दलेन उपवेशनप्रवासप्रशिक्षणमाध्यमेन सम्पर्करूपेण सिद्धं भवितव्यं -"रोहितकौशिक:"

।नवदेहली। महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीये अखिलभारतप्रचारविभागाभ्यासवर्गे विभिन्ना: प्रचारमार्गदर्शका: समुपस्थिता: अभवन् । अधिकमासे श्रावणशुक्लैकादशी -द्वादशीतिथौ 29-07-23दिनांकत: 30-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: नवदेहल्यां संजात: । श्रीगोपबन्धुमिश्रवर्य:- संस्कृतभारत्या: अखिलभारतीयाध्यक्ष:, श्रीशिरीशवर्य: अखिलभारतीयप्रचारप्रमुख: च
श्रीसत्यनारायणवर्य: अखिलभारतीयमहामन्त्री एवं
इण्डियन-इंस्टिट्यूट-आफ-मास-कम्युनिकेशन-महाविद्यालयस्य पत्रकारिताविभागस्य प्राध्यापक: श्रीप्रमोदसैनी, it स्वोद्योगक्षेत्रनवदेहलीत: संस्कृतभारत्या: अन्तर्जालपुटावलोकनकर्ता श्रीधीरज: एवं सहैव तत: कार्यालयप्रमुख: श्री अभिजीतवर्य: चादय: कार्यदायित्वविषये अन्तर्जालप्रविष्टिविषये च प्रथमदिवसे समागतानां मार्गदर्शनं कृतवन्त: ।

द्वितीयदिवसे अखिलभारतीयप्रचारसदस्य: तथा रिलायन्स इण्डस्ट्रीज इत्यत्र प्रचारक: श्री ऊमेश-उपाध्याय: -संचेतितवान् यत् अस्मिन् समये सोशलमीडिया इत्यत्र किं जायते । तै: कथितं यत् समयेस्मिन् विचारसंघर्ष: च मानवमननियन्त्रणोपाय: चलति । एतत् सर्वं प्रभावितं करोति । कैमरा इत्यनेन मोबाइलद्वारा च सूचना कम्पनी इत्यनेन माध्यमेन सर्वत्र गच्छति तस्य उपयोगं ते कुर्वन्ति। ते जनानां प्रवृत्तिं जानन्ति । प्रभावितुं कर्तुं तत्तन्त्रमपि प्रचलति एवम्प्रकारेण विमर्शस्य संघर्ष: जायते
पशुपक्षिषु च वृक्षेषु अपि साक्षात् ईश्वरं मन्यामये वयं । एतत् इको सिस्टम् वर्तते भारते । संचारेषु च फिल्म इत्यत्र पादरी बेईमान नास्ति मौलवी बेईमान नास्ति परन्तु पण्डित: बेईमान अस्ति इति प्रदर्श्यते एतेन धारणा निर्मीयते ।

*संकटसमये कोरोनाकाले भारतस्य सभ्यता भारतं रक्षितवती*

श्री-उपाध्यायेन प्रोक्तं यत् मीडियाक्षेत्रे धारणा अपि संरचनया निर्मीयते । या धारणा मनसि तदेव सत्यम् इति । मीडियाटेटसिस्टम् इति भारतविरोधी वर्तते । संकटसमये कोरोनाकाले भारतस्य सभ्यता भारतं रक्षितवती। अमेरिकाद्वारा नकारात्कता प्रदर्शिता । मणिपुरघटनाया: प्रदर्शनं संरचितं दुरुपयोगं च कृतवन्त: । तत्र सर्विलांस इत्यस्यापि प्रयोग: च दूरवाण्या: उपयोग: तकनीकीतन्त्रं निरीक्षणं करोति । इस्लामिकक्षेत्रे सचेतका: संरक्षका: तन्त्रे भवन्ति । अन्येषां कृते दुरुपयोगम् आक्रमणं कुर्वन्ति । नैरेटिवबिल्डिंगकार्यं संवैधानिक तन्त्रमपि प्रभावयति । संसदि कृषकान्दोलनं यथा च सीएए इति दुष्प्रभावित: अआसीदेव । माइण्डसेट इत्यत्र वयं अनावधाना: , संचारप्रचारे अस्माकं भूमिका न्यूना एव । सत्यविश्वासे वयं न तिष्ठाम: सत्यं किम् अस्ति वयमेव सत्यं स्थापयाम: । 15सितम्बर 1948 तेलगु क्षेत्रे सरदारवल्लभभाईपटेलवर्यस्य पृष्ठे ब्रिटिशजनै: विपरीततथ्यं मीडियासन्दर्भे कथितं । विपरीतपरिस्थिति: मीडियानकारात्कता पूर्वत: एवास्ति अस्माभिरेव तथाविधं जागरणीयमेव । उद्देश्यं भूमौ यथा दीर्घप्राप्ति: तथैव अस्माकं नेटवर्क इत्यपि भवतु । पूर्वमेव स्थिते: अवधानं स्यात् । बहुत्र अस्माकं कलहं नेटवर्कक्षेत्रे न भवेत् । सर्वत्र विचारम् अपि न दध्म: । सूचनामात्रमेव ध्यानं स्यात् रणनीतियुक्तमपि । संवेदनशीलम् अपि संचारित: भवेत् । समय: बलवानपि विद्यते । प्रचार: समाजकार्यदृष्ट्या । नवसंचारस्य संरचनां वयं कुर्म: । अस्माकं बलम् कतिजनेषु संचारप्राप्ति: । अस्माकम् आहुति: अस्माकं राष्ट्राय ।

* प्रतिप्रान्ते विभागश: प्रचारदलं स्यात् *

श्रीरोहितकौशिक: विशेषाह्वाहनं कुर्वन् उक्तवान् यत् अस्माभि: दलरूपेण भवितव्यं । युद्धे च समये शक्तिदर्शनम् आवश्यकं ।जीवने अपि कदाचित् स्वयम् अपि अनावश्यकरूपेण न भवाम: । दले सर्वेषाम् आवश्यकता अत: दलम् आवश्यकम् ।
दलम् उपवेशनप्रवासप्रशिक्षणमाध्यमेन सम्पर्करूपेण सिद्धं कुर्यात्। विभिन्नचायपेयका: यथा तथैव फेसबुक इत्यादिषु विभिन्नता भवति । संस्कृतानां दलनिर्माणं च उपवेशनं प्रवास: मासिकरूपेण आवश्यक: तत्र प्रशिक्षणम् अपि आवश्यकम् । प्रतिप्रान्ते विभागश: प्रचारदलं स्यात् । सामर्थ्यशालिनां भवति दलं । प्रशिक्षणं सम्यक् च 1.वार्ताहर:- (मिथ्यायामपि ) 5मि.समये सर्वं साधयेत् , 2.टिप्पणी आवश्यकी , 3.सम्पर्कसम्प्राप्ति:-100जनै: सह सम्पर्कप्राप्ति: संस्कृतविषये तथा च वक्तासम्पर्क: अपि भवतु। यत्र यत्र हैण्डल इत्यस्ति तत्र तत्र टिप्पणी 400पर्यन्तं भवतु एव । टिप्पणीनाम् इत्यस्य प्रभाव: भवति । इतोपि कार्यद्वयं 1. कार्यकर्तु: विश्लेषणं न कर्तव्यं केवलं दलनिर्माणं 2. कण्टेंट जनरेटर इत्यस्य अपि विश्लेषणं न कर्तव्यं । दलनिर्माणं अधिकमात्रायां , सोशलमीडियादलनिर्माणं च भवतु । मासिक-उपवेशनं च मासिकप्रवास:-कार्यक्षेत्रत: एव साक्षात् भवेत्। प्रशिक्षणम् आफलाइन, आनलाइन इत्यनेन द्विविधमेव करणीयम् ।रिपोर्टिंग इति नकारात्मके च सकारात्मके कमेण्ट इति च मासिके आफलाइन सोशलमीडिया कण्टेंट जनरेशन इति विचारणीय: । श्रीसोनूवर्य:- प्रोजेक्टरमाध्यमेन ट्विटर इत्यत्र विरुद्धं किमपि चलचित्रं चित्रं वा अपसारयितुम् निर्दिष्टवान्
श्रीशिरीषवर्य: सूचितवान् यत् गीताजयन्तीदिने महता प्रमाणेन जनान् योजयाम: । 22दिसम्बर2023दिने गीताजयन्तीदिनाचरणं विशालम् आचरामश्च संस्कृतदिवसस्य अपि ट्विटर मध्ये ट्वीट्कुर्म:।

* प्रचारविषये कौशलम् अध्ययनम् आवश्यकम् *

सत्यनारायणमहोदय: समापनावसरे सर्वेषाम् मार्गदर्शनं कुर्वन् प्रोक्तवान् यत् संगठनसूत्रं व्यक्तीनां योजनं कार्यरचना च कार्यकरणं गुणवत्तावर्धनं वर्तते। सर्वाणि कार्याणि अस्माभिरेव नेतव्यानि। जलप्रवाह: इव जीवनप्रवाह: अस्मान् नयति। अत: विचारप्रवाहे अस्माभि: गन्तव्य: । सत्त्वं सामर्थ्यं यत् तदग्रे गच्छति। प्रचारविषय: अपि तथैव सत्त्वशुद्धि: । तदनुगुणं कौशलं सम्पादनीयम् । तत्र अनुभव: प्राप्तव्य: । तेन सर्वं कर्तुं शक्नुम: । योजना प्रान्तेषु संरचनीया परिपालनीयानि । प्रत्यक्षप्रयोगस्तु प्रान्ते च जनपदेषु एव । लघुगणेपि वर्गे चर्चितविषया: नियोजनीया: । कार्ययोजना रचना च प्रान्ते भवेत्। अन्वेषणरूपेणापि गणरचना स्यात्। प्रचारविषये कौशलम् अध्ययनम् आवश्यकम् । सोपाननिमित्तानि कौशलानि प्रचारेपि सम्पादनीयानि। समाजे विमर्शस्य स्थापना आवश्यकी । अग्रिमकार्ययोजना चर्चिता: भवेयु: । अन्ये साहाय्यम् योजयाम: । कार्यक्रमं कर्तुं वा स्वीकर्तुं शक्नुम: तेन प्रचारविभागाय लभ्येत् अपि । दर्शनीयम् चेत् तु उपलब्धं किम् ।
राज्ये उत्तम: लेख: क: आगच्छति इति चिन्तयाम: । भाषासन्दर्भे विमर्श: चेत् चलचित्रादिकम् अपि स्यात् । तत्कथं वयं प्रसारयितुं शक्नूम: । संवादमालां दृष्ट्वा अपि बहव: बाला: भाषाम् अर्जितवन्त: । संस्कृतं स्वीकुर्यात् समाज: चेत् उपाया: चिन्तनीया: । कियत् समय: अहं प्रचाराय ददामि इति चिन्तनीय: । विद्यालये संवादकार्यक्रम: छात्रै: सह चलचित्ररूपेण भवतु । उपाहारमन्दिरे अपि संवादकार्यक्रम: । लोकयाने संवाद: प्रचारदृष्ट्या इति । अग्रे नयनं प्रचारगणस्य कार्यं । सत्वं कौशलं अनुभव: च गुणा: अपि अपेक्षिता: एव प्रचारेपि । श्रम: स्नेह: चापि आवश्यक: ।
चतुर्विंशतिप्रान्तत: समागतानां प्रचारकाणां श्रीजयप्रकाशवर्येण सह अपि मेलनं जातं । देहलीप्रान्तस्य कार्यकर्तृणाम् अत्र विशेषसहयोग: सर्वै: प्राप्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button