उत्तराखण्डदेशदेहलीपौड़ी

केन्द्रीयसंस्कृत-विश्वविद्यालयेन देवप्रयागपरिसरे योगदिवस: समाचरित:

प्रधानमंत्री नरेंद्रमोदी योगमाध्यमेन भारतस्य परिचयं अन्ताराष्ट्रियरूपेण कृतवान्---"कुलपति: श्रीनिवासवरखेडी"

संस्कृत समाचार।नवतमे अन्ताराष्ट्रिययोगदिवसावसरे
केन्द्रीयसंस्कृतविश्वविद्यालयस्य सर्वपरिसरत: सम्मिल्य श्रीरघुनाथकीर्तिपरिसरे माननीयकुलपतिवर्यस्य प्रो.श्रीनिवासवरखेड़ीवर्यस्य मार्गदर्शने शैक्षणिकसदस्याः भागं गृहीतवन्तः। सर्वै: सह ,सर्वेषां विकास: सर्वेषां विश्वास: इत्यनुश्रित्य परिसरे योगदिवस: समाचरितोभवत्। यत्र प्रायश: 350 छात्र-छात्राश्च कर्मचारिण: तथा शैक्षणिकसदस्या: प्रतिभागं कृतवन्त:। संस्थानस्य कुलपति: प्रो.वरखेडी़वर्य: योगसमापने अवोचत् यत्- अस्माकं प्रधानमंत्री नरेंद्रमोदी योगमाध्यमेन भारतस्य परिचयं अन्ताराष्ट्रियरूपेण कृतवान्।

वस्तुतः कुलपते: एतत् भ्रमणं सीएसयू-सङ्घस्य सर्वेषु परिसरेषु सुनिश्चितम् आसीत्, येन छात्रैः, अधिकारिभिः, कर्मचारिभिः च सह चर्चां कृत्वा शैक्षणिकवर्षं २०२३-२०२४ अभिनवरूपेण आयोजन सञ्जातं। अस्मिन् सन्दर्भे कुलपतिः अपि अवदत् यत् कस्यापि संस्थायाः प्रगतिः केवलं तस्य सर्वोच्चाधिकारिणः आदेशेन एव सम्भवति, परन्तु सा सर्वेषां जनानां संयुक्तकल्याणस्य आधारेण एव निर्भरं भवति। शैक्षणिकसंस्थासु छात्राणां रुचिः सर्वोपरि गणनीया यतोहि भारतीयपरम्परायां छात्राः मनसः बालकाः इति स्वीकृताः सन्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button