गङ्गा इव संस्कृतमपि निरन्तरगतिशीलं सर्वजगति – “डॉ.अभिषेकपाण्डेय:”

संस्कृत समाचार। उत्तरप्रदेशसंस्कृतसंस्थानद्वारा सञ्चालितायाः आन्लाईनसरलसंस्कृतभाषा-शिक्षणयोजनायाः अन्तर्गतं विंशतिदिनात्मके आन्लाईनप्रशिक्षणे बौद्धिकसत्रस्य आयोजनं कृतम् । आराधना रावत द्वारा कृतया सरस्वतीवन्दनया कार्यक्रमस्य आरम्भः कृतः । दक्षा डाबी संस्थानस्य उद्देश्यं व्यञ्जयन्तीं संस्थानगीतिकां गायति स्म। महाराजगंजतः संस्थानप्रशिक्षक आचार्य दिवाकर मणि त्रिपाठी द्वारा अतिथिपरिचय:, स्वागतभाषणं प्रस्ताविकं च कृतम् । सः अवदत् यत् संस्थायाः निदेशकः IAS अधिकारी श्री विनयश्रीवास्तवः उत्तरप्रदेशं संस्कृतमयं कर्तुं प्रतिज्ञां कृतवान् अस्ति।
प्रशिक्षणप्रमुखः सुधिष्ठमिश्रा महोदयः संस्थानयोजनायाः गतिशीलतां दातुं यथाशक्ति प्रयत्नं कुर्वन् अस्ति। बौद्धिक सत्रे प्रशिक्षण संयोजक श्री धीरज मैठाणी, दिव्यारंजन:, सुश्रीराधाशर्मा इत्यादिभिः स्वविचाराः प्रस्तुताः।
कार्यक्रमस्य मुख्यातिथिः श्रीगुरुगोरक्षनाथस्य संस्कृतविद्यापीठस्य व्याकरणविभागस्य प्रमुखः, संस्कृतभारतीयाः प्रान्तीयशैक्षणिकपरिषदः प्रमुखः च डॉ. अभिषेकपाण्डेयः अवदत् यत् गंगानदी यथा कुत्रचित् प्रसारिता अस्ति, तथैव केषुचित् संकुचिता अस्ति स्थानेषु, तथापि गङ्गायाः निरन्तरप्रवाहः निवारयितुं न शक्यते, तथैव एवं संस्कृतभाषा केषुचित् स्थानेषु अत्यल्पं भाष्यते किन्तु तस्याः निरन्तरगतिशीलता सर्वत्र जगति वर्तते। कार्यक्रमस्य संचालनं दीनदयाल शुक्लद्वारा जातम् , छात्रैः स्वानुभवकथनानि उक्तानि, डॉ. सत्यप्रकाशेन धन्यवादज्ञापनं कृतम्, श्रीमान शशिकांत: शांतिमन्त्रद्वारा कार्यक्रमस्य सम्पूर्तिं कृतवान् च। कार्यक्रमे संगीता टेमकर:, भूमिका अग्रवाल:, नफीसा, पवन कुमार पाण्डेयसहितं 80 जनाः उपस्थिताः आसन् ।