संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देश

“आषाढस्य प्रथमदिवसे” इत्यनुश्रित्य कालिदासदिवस: आचरित:

संस्कृत समाचार। विश्वप्रसिद्धस्य महाकविकालिदासस्य विषये को न जानाति। स: स्वस्य भव्यरचनाशैल्या लेखकान् विद्वान् च आकर्षितवान्। मेघदूत इति पुस्तके कालिदासः आषाढस्य प्रथमदिने प्रिया विरही यक्षस्य मेघं दूतरूपेण प्रेषितवान् आसीत् । अतः विद्वांसः अस्य दिवसस्य साहित्यजगतो महानाट्यकारस्य कालिदासस्य दिवसः इति आचरितवन्तः । अस्मिन् अवसरे केन्द्रीयसंस्कृतविश्वविद्यालये भोपालपरिसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य प्रख्यातस्य तेजस्वीकुलपते: प्रो.श्रीनिवासवरखेडीवर्यस्य संरक्षणे कालिदासोत्सव: “आषाढस्य प्रथमदिवसे” इत्यस्य कार्यक्रम: आयोजितोभवत्

आषाढस्य प्रथमदिवसस्य कार्यक्रमे महाकविकालिदासस्य सृष्टिविषये देशस्य प्रख्यातविद्वांसः उत्तमव्याख्यानं प्रदत्तवन्तः। यत्र मुख्यातिथिरूपेण राष्ट्रियसंस्कृतसंस्थानस्य पूर्वकुलपति: प्राध्यापक: राधावल्लभत्रिपाठी, अध्यक्षतायां निदेशक: प्राध्यापक: रमाकान्तपाण्डेय:, सारस्वतातिथि: प्रो.रामकुमारशर्मा, विशिष्टातिथि: डॉ. पंकजविश्वासभम्बुरकर:,समन्वयक: प्रो.सनन्दनकुमारत्रिपाठी , संयोजिका डॉ. संगीता गुंदेचा, सहसंयोजक: डॉ. रमणमिश्र: आदय: विद्वांस: उपस्थिता: आसन्। अस्य अद्भुतस्य आयोजनस्य कृते विश्वविद्यालयस्य प्रख्यातनिदेशकः सर्वे सदस्याः च सादरं उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button