संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

योगाभ्यास: कण्वनगर्यां

संस्कृत समाचार। योगदिवसोपलक्ष्ये e techno mind इत्यनेन च सार्थकयोगशाला- कण्वनगरीकोटद्वारद्वारा योगदिवस: समाचरित: । सद्भावनाकालोनीशिब्बूनगरकोटद्वारे योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं कुर्वन्ति।बुधवासरे अत्र विशेषायोजनं सञ्जातं। राष्ट्रीययोगासनेषु क्रीडां प्रति जागरयितुं योगासनप्रतियोगिताया: आयोजनं संस्थाद्वारा अभवत् । यत्र अनेकबालकै: प्रतिभाग: कृत:। आयोजनं श्री राकेशकंडवालस्य शारीरिकशिक्षकस्य च राजकीय-इंटर-कॉलेजकांडाखालत: एवं श्री अजयजोशीवर्यस्य E techno mind इत्यनयो: संचालनेन समारभत्।

अवसरेस्मिन् अभिभावकै: उक्तं यत् एतेन अभ्यासेन बालकेषु नूतनसंस्कार: समागत: शारीरिकस्वास्थ्येन सह विचारेषु कार्येषु परिवर्तनं दृश्यते । विशेषरूपेण बाला: टीवी मोबाइल इत्यनयो: दूरे एव सन्ति। वयं सन्तुष्टा: स्म: यत् अस्माकं सन्ततिषु एतादृश: संस्कार: समायाति । श्री अवनीशपन्तवर्येण अत्र सर्वै: सह बालकसन्दर्भे योगविषये चर्चा परिचर्चा कृता तै: कथितं यत् आधुनिकसमाजे संस्काराणाम् आकांक्षा अस्माभि: यथा चिन्त्यते तथैव अत्र प्राप्तुं शक्नुम: । श्रीराकेशकण्डवालद्वारा च सोनमद्वारा अत्र योगद्वारा बालकेषु संस्काराणां भाव: समुत्पन्न: क्रियते अस्य कृते द्वयोरेव महद्योगदानं विद्यते ।

अवसरेस्मिन् अभिभावकै: सह विभिन्नगणमान्येषु ।श्री कुलदीपमैंदोला राजकीय-इंटर-कॉलेज-कोटद्वारत: श्री संजीवकुमार: श्री पूरणनेगी सुधाजोशी हिमानीघिल्डियाल: ममताकण्डवाल: सोनमरावत: पूजामधवाल: श्री अवनीशपंत: पत्रकारवर्य: आदय: सादर उपस्थिता: आसन् । सर्वै: योगदिवसोपक्ष्ये योगाभ्यास: कृत: तथा च जोशीपरिवारेण योगबालानां कृते पारितोषिकवितरणम् अपि कृतं ‌।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button