चाइल्ड एजुकेशन सोसाइटीद्वारा समनुष्ठितः चतुर्थः ‘सीईएस विद्योत्सवः’

नवदिल्ल्ली, ७ फरवरी। युवराजभट्टराई। चाइल्ड एजुकेशन सोसाइटी (सीईएस) इत्यनया संस्थया मानेकशॉ-केन्द्र-प्रेक्षागृहे चतुर्थः ‘सीईएस विद्योत्सवः’ सम्यग् आयोजितः। अस्मिन् अवसरे नीतिनिर्मातारः, शिक्षाविदः, शिक्षाक्षेत्रसम्बद्धाः विशेषज्ञाश्च देशस्य कर्णधारणां भविष्णु-नागरिकाणां निर्माणाय शिक्षायाः पुना रचनाविषये विचारविमर्शम् अकुर्वन्।
मुख्यातिथिरूपेण उपस्थितः श्रीसंजयकुमारः, आईएएस, भारतसर्वकारस्य शिक्षामन्त्रालये विद्यालयशिक्षा-साक्षरता-विभागस्य सचिवः, “कक्षाया: परे भविष्यनिर्माणम्” इति विषये समुपस्थितं जनसम्मर्दं सम्बोधितवान्। तेन अनुभवरूपायाः अनुप्रयोगाधारितायाश्च शिक्षायाः महत्त्वं प्रतिपादितम्। समालोचनात्मकचिन्तनस्य, अनुकूलनक्षमतायाः, जीवनोपयोगिकौशलानां च विकासाय बहुभाषिकता शिक्षायाः सुलभतायाः समावेशितायाश्च प्रमुखं साधनत्वेनापि निरूपितम्।
सीईएस-संस्थायाः अध्यक्षः श्रीनिखिल-चन्ना-वर्यः स्वभाषणे शिक्षां अधिकप्रासङ्गिकीं, समग्रां मूल्याधारितां च विधातुं साम्प्रतिकी आवश्यकतास्ति इति प्रतिपादितवान्। सः प्राज्ञिक-उत्कृष्टतया सह सहानुभूतेः, चरित्रनिर्माणस्य, सामाजिकोत्तरदायित्वस्य च संवर्धनं शिक्षायाः अविभाज्यं तत्त्वम् इति अभ्यधात्।
विचारगोष्ठ्यां जीविकोन्मुखकौशलविकासः, सार्वजनिक-प्रशासनेतर-सहभागिता, विद्यालयीय-स्वायत्तता, कृत्रिमबुद्धेः उत्तरदायित्वपूर्ण-समावेशनं चेत्यादिषु विषयेषु चापि चर्चा अभवत्। अस्मिन् पटलचर्चासत्रे डॉ. बुद्धचन्द्रशेखरः, सुश्री लक्ष्मीकौल:, डॉ. विनी जौहरी, डॉ. विश्वजीतसाहा च सहभागम् अकुर्वन्; संचालनकार्यं श्रीशरदअरोड़ा अकरोत्।
द्वितीये अपराह्णसत्रे सुप्रसिद्धः अभिनेता, लेखक:, सांस्कृतिक-चिन्तकः श्रीआशुतोषराणा “विद्या, विवेक, विकासश्च एकविंश-शताब्द्याः भारतीयशिक्षाया: सूत्रत्रयम्” इति विषये प्रभावपूर्णम् उद्बोधनं दत्तवान्। तेन शिक्षा केवलम् आजीविकासाधनं न, अपितु उद्देश्यपूर्णजीवननिर्माणस्य माध्यमम् इति प्रतिपादितम्। सीईएस-संस्थायाः कला-संस्कारसंवर्धन-प्रयत्नाः अपि तेन प्रशंसिताः।
सांस्कृतिककार्यक्रमेषु “रागमाला” इति नाम्ना कोयर-वाद्यवृन्द-प्रस्तुति: तथा शास्त्रीयनृत्यप्रदर्शनम् अभवत्। विशिष्टपूर्वच्छात्राणां तथा नेतृत्वकर्तॄणां सम्मानः अपि अत्र समायोजितः।
कार्यक्रमस्य समापनं सीईएस-संस्थायाः संयुक्तसचिवेन श्री एल. वी. सहगल-महाभागेन कृतेन धन्यवादप्रस्तावेन अभवत्। राष्ट्रनिर्माणे शिक्षकाणां महत्त्वपूर्णा भूमिका तेन विशेषतः उल्लिखिता।
अयं विद्योत्सवः ज्ञान-विवेक-विकासानां समन्वितदृष्ट्या आधारितायाः शिक्षायाः दृढप्रतिबद्धतां पुनः सशक्ततया प्रतिपादितवान्।







