संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
देशदेहली

त्रिदिवसीयान्ताराष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम् ।

दिल्ल्यां सरगंगाराम चिकित्सालयमार्गस्थे बालभारतीपब्लिकस्कूल इत्याख्ये प्रशासनेतरविद्यालये त्रिदिवसीयान्ताराष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम् अद्य शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य श्री-एलवीसहगलस्य दिङ्निर्देशे अस्यां प्रदर्शन्यां आधुनिक-विश्वस्य उद्देश्यस्य अनुरूपमेव आधुनिक-दृशा छात्राणां ज्ञानाभिवृद्धये, संस्कृतस्य अध्ययनम्प्रति तेषाम् अभिप्रेरणाय च विविधा: उपाया: प्रकल्पिताः सन्ति। अथ च प्रदर्शन्या: औद्घाटनिकसत्रे अस्माकं प्राचीन-विद्वत्-प्रवरै: ऋषि-मुनिभिः विरचितस्य विपुल-वाङ्मयस्य संरक्षणाय चापि विचार-विमर्श-पूर्वकं प्रतिष्ठितै: विद्वद्भिः मार्गदर्शनं कृतम्। एष: कार्यक्रम: दिल्लीस्थ-प्रशासनेतर-विद्यालयेषु संस्कृत-भाषाया: संवर्धनार्थम् विभिन्नमाध्यमेन बलवत्तरं सहयोगं प्रदाय समेषां मार्ग-प्रशस्ती-करणम् अपि करिष्यति।

अद्य यदा वयम् एकविंश्यां शताब्द्यां वैश्वी-करणं भूमण्डलीकरणं च सम्मुखी-कुर्म: तदा अस्मिन् विचित्रे विशिष्टे च सामाजिक-परिवेशे संस्कृतस्य का भूमिका विश्वमञ्चे भवेद् इत्यस्मिन् विषये एषः बालभारतीविद्यालय: सुबहु-स्तरीयं मानकं च कार्यं विदधाति तदन्तर्गतमेव एषा अन्ताराष्ट्रिया प्रदर्शनी अपि वर्तते। अनेन भव्यायोजनेन संस्कृत-विषयाणां माहात्म्य-बोधन-पूर्वकं छात्रा: संस्कृताध्ययनोत्सुका: संस्कृता-ध्ययन-शीला: च भूत्वा निजोत्कर्षम् अनुभविष्यन्ति इति तत्र समागतै: विद्वद्भिः प्रोक्तम्।

संस्कृतभाषाप्रणीतानां वेद-वेदाङ्ग-उपनिषद्-ब्राह्मण-आरण्यक- धर्मशास्त्र-पुराण-इतिहास-दर्शन-योग-आयुर्वेद-शिल्प- वास्तुशास्त्र-अर्थशास्त्र-खगोल-भूगोल चेत्यादय: विषया: चापि तत्र प्रदर्शिता: सन्ति। अस्मिन् प्रदर्शनीकार्यक्रमे विभिन्न-विद्यालयानां संस्कृत-शिक्षकाः, छात्रा:, अभिभावका:, अन्वेषका:, संस्कृतानुरागिण: च उपस्थिता: आसन्।

अस्मिन् कार्यक्रमे संस्कृतिमन्त्रालयस्य अन्तर्गतम् इन्दिरा-गान्धि-राष्ट्रिय-कला-केन्द्रस्य भारत-विद्या-परियोजना विभागस्य अध्यक्ष: आचार्य: प्रो. आर्य-भूषण-शुक्ल-महोदय: प्रमुखातिथित्वेन उपस्थाय निजप्रेरकवचोभिः छात्रान् भारतीयां शिक्षाव्यवस्थां बोद्धुं प्रैरयत्। अथ च दिल्ली विश्वविद्यालयस्यान्तर्भूतस्य हिन्दू-महा-विद्यालयस्य संस्कृत-विभागस्य सहायकाचार्य: डॉ. सुनील: जोशीवर्य: अत्र संस्कृते विज्ञानम् इत्यस्मिन् विषये नैजं वैदुष्यपूर्णम् वक्तव्यं प्रदाय छात्रान् अभिप्रेरितवान्। संस्कृतभारतीसंस्थायाः प्रान्त-मन्त्री देवकी-नंदन-महाभाग: विशिष्टातिथित्वेन कार्यक्रमस्य शोभां वर्धितवान्। अस्यां प्रदर्शन्याम् संस्कृत वाङ्मये निहिता: ज्ञान-विज्ञान-अध्यात्म-नाट्य-संगीत-नृत्-योग- आयुर्वेद-चित्रकला-मूर्तिकला प्रभृतिभि: भूरि विषयै: साकं दैनिक-प्रयोग-वस्तूनि अपि संस्कृते प्रदर्शितानि आसन्।

अस्या: प्रदार्शन्या: आयोजनाय उपप्रधानाचार्या श्रीमती विनीताधवनवर्या मुख्याध्यापिका श्रीमती नीता निझारा वर्या चापि मार्गदर्शनं कृतवत्यौ। ध्येयम् अस्ति यत् एषा प्रदर्शनी विंशस्त्युत्तर-द्वि-सहस्र-तम-वर्षस्य नूतन-राष्ट्रिय-शिक्षानीते: अनुरूपमपि अस्ति यस्मिन् भारतीय-ज्ञान-प्रणाली-सम्‍पदाया: आधुनिक-ज्ञान-प्रणाल्या: च एकीकरणे बलम् प्रदत्तम् अस्ति। अस्या: प्रदर्शन्या: द्वितीयं सत्रम् आभासीयम् आसीत् यत्र विश्वमानितस्य ऑक्सफोर्ड-विश्व-विद्यालयस्य भारतीय-दर्शन-प्राच्यविद्या-विभागस्य स्पोल्डिंग प्रोफेसर-पदे कार्यपर: श्रीयुत: दिवाकरः आचार्य: मुख्यातिथित्वेन उपस्थाय विदेशेषु संस्कृतस्य विवर्धमानाया: लोकप्रियताया: विषये छात्रान् प्रावोचत्। अपि च बाल भारती-पब्लिक-विद्यालयस्य प्राक्तनच्छात्र: नीतीशराय: परवाणी अपि निजप्रेरक-बोधनेन छात्रान् संस्कृताध्यायनाय प्रेरितवान्। छात्रैः प्रश्न-माध्यमेन निज-जिज्ञासा: अपि विदुषां पुरत: उपस्थापित: । कार्यक्रमे दिल्लीस्थानाम् अन्येषां प्रशासनेतरविद्यालयानां शिक्षकाः छात्रा: अपि उपस्थिता: आसन्। सहैव भूरि संख्यायां छात्राणाम् अभिभावका: अपि उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button