संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेश

फेकूचन्द्रनामधेयः पात्रः सर्वोत्तमनायकस्य पुरस्कारं लब्धवान्

उत्तरभारतीयरुपकमहोत्सवे डाँ. निरंजनमिश्रद्वारा प्रणीतस्य "मर्त्यचातुर्याख्यस्य प्रहसनस्य मंचनं तेषामेव निर्देशने

सम्पूर्णे विश्वे ख्याताया: विख्याताया: प्रत्युत्पन्नमतिव्यवहारकर्मणिनिपुणाया: सुसम्पन्नभारतीयज्ञानविज्ञानपरम्पराया: आधारभूताया: अस्मदखण्डभारतवर्षस्यात्मस्वरूपाया: संस्कृतभाषाया: ध्वजवाहका:,अर्जुनसदृशयोद्धानाम् केशवा:,छात्रवत्सलानाम् ह्दयस्पंदनाधारभूता:, श्रेष्ठज्येष्ठानाम् गौरवभूता:, सह्दयेष्वादरणीया:, संस्कृतसाहित्यस्य सुविख्याता: कविरत्ना:, वेदवेद्गागन्यायमीमाँसासाहित्यव्याकरणज्योतिषछन्दादिसकलशास्त्रेषु पारंगता:। विशेषत: साहित्यरसेन रसिता, सुधानन्दरत़्नाकरे निमग्नीभूत्वा नियतिकृतनियमरहित- ह्लादैकमयीमनन्यपरतन्त्रनवरसरुचिरकाव्यशास्त्राणाम् लेखने चमत्काररत्नाकरा: कालिदासबाणभट्टसाहित्याकादम्यादि- पुरस्कारै: पुरस्कृता: अनवरतशास्त्राध्यापने संलग्ना: गुरव:” डाँ निरंजनमिश्रवर्या:” । येषां शास्त्रानुशीलनाभ्यासवशाद् सहस्त्राधिका:अध्यापितच्छात्रा:स्वस्वकार्यक्षेत्राणामादर्शा: समुचितसंवर्धका: संरक्षकाश्च।

महोत्सवस्य वेलेयम्,यतो$स्माकं गुरुणा प्रणीतस्य “मर्त्यचातुर्याख्यस्य प्रहसनस्य मंचनं तेषामेव निर्देशने केन्द्रीयसंस्कृतविश्वविद्यालयस्य तत्वावधाने आयोजितायामुत्तरभारतीयरुपकमहोत्सवे$भवत्।
प्रतिस्पर्धायामस्यां प्रहसनमिदं तृतीयस्थानं , सर्वोत्तमसंगीते सर्वोत्तमाहार्ये च प्रथमं स्थानं प्रप्तवान्। फेकूचन्द्रनामधेयः पात्रः सर्वोत्तमनायकस्य पुरस्कारं लब्धवान् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button